________________
भावप्राभृतं ।
मयाचत-देवकी ममं गृहान्तरे प्रसूतिं कुर्यान्मतादिति । वसुदेवस्तेनोपरुद्धः संस्तथास्त्विति जगाद । अवश्यंभाविकार्येषु मुनिरपि मुह्यति । अथैकदा स मुनिर्देवकीगेहं भिक्षार्थ प्रविवेश । वसुदेवो देवकी च तं प्रतिगृह्य भोजयित्वों आवयोदक्षा भविष्यतिति छद्मना जगदतुः । मुनिस्तदिङ्गितं ज्ञात्वोवाच- युवयोः सप्त पुत्रा भविष्यन्ति तेषु षट् पुत्राः परस्थाने वृद्धिमित्वा मोक्षं यास्यन्ति सप्तमस्तु पुत्रो निजच्छत्रच्छायया पृथ्वीं निर्वाप्य चक्रवर्ती दीर्घकालं पालयिष्यति । देवकी ततस्त्रिर्यमन् लेभे । तान् ज्ञानवान् शक्रश्वरमाङ्गान् ज्ञात्वा नैगम देवं प्रोवाचएतांस्त्वं रक्ष । स च भद्रिलपुरे अलकाया वणिक्पुत्र्याः पुरो निक्षिप्य तत्पुत्रांस्तदा तदा भूतान् गृहीत्वा मृतान् यमान् देवक्यग्रे निचिक्षेप | कंसस्तान् मृतान् यमान् दृष्ट्वा किममी मे मृताः करिष्यन्तीति मुनेर्वाक्यमसत्यमभूदिति प्रोच्य साशंकः शिलायामास्फालयामास । पश्चाद्देवकी सप्तमं पुत्रं सप्तम एव मासे जनितवती निजगृहे एव महाशुक्राच्च्युतं निर्नामकचरं मुनिवरं । वसुदेवो बलभद्रश्च नीतिमन्तौ, देवक ज्ञापयित्वा गृहीतवन्तौ बलेन बाल उद्धृतः, पित्रा घृतच्छत्रो रात्रावेब निष्कासितः । तत्पुण्येन पुरदेवता वृषभरूपेणाग्रेऽग्रे निजशृङ्गमणिदीपिकाकृतोद्योता मार्ग दर्शयामास । तद्वालपादस्पर्शाद्गोपुरमुद्घाटितौररं सद्यो जातं । तत्र बन्धनस्थित उग्रसेन उवाच -कवाटोद्घाटनं कः करोति ? बलदेव उवाच - यस्त्वां बन्धान्मोचयिष्यतीति तूष्णीं तिष्ठेति । उग्रसेन एवं भवत्वित्याशीर्भिरभिनन्द्य स्थितः । तौ तु यमुनामितौ । सा भविष्यचक्रिप्रभावेन द्विधा भूत्वा मार्ग ददौ । सवर्णः को वा बन्धुतां सार्दो न कुर्यात् । तौ विस्मितौ यमुनां व्यतिक्रम्य बालिकामुद्धृत्यागच्छन्तं नन्दगोपतिं ददृशतुः । तं दृष्ट्वा तावूचतुः - भद्र ! त्वमसहायो रात्रावत्र कि१ पूर्वदत्तवरदानात् । २ अस्मादग्रे उवाचेति पदं । ३ त्रियमल. ख. ४ शब्द |
Jain Education International
For Private & Personal Use Only
१७५
www.jainelibrary.org