________________
AAAAAAAAAAAAAAAAAAAAAAAAAAAAAAA
१७४
षट्प्राभूतेमन्दोदरी मम पुत्रः किं तत्रापि कृतापराध इति भीत्वा समंजूषा तत्र जगाम । जरासन्धाने मंजूषां निक्षिप्य इयमस्य मातेत्युवाच । देव ! कंसमंजूषामधिष्ठायाऽर्भक आगतो यमुनाजले मया लब्धः प्रतिपाल्य वर्धितश्च तत एव नाम्ना कंसः कृतः । अयं स्वभावेन शौर्यदर्पिष्ठः शिशुत्वेऽपि निरर्गलः पश्चादुपालंभशतैर्लोकानां मया वर्जितः । तच्छत्वा मंजूषायाः पत्रं गृहीत्वा उच्चैर्वाचयामास । उग्रसेनपद्मावत्योः सुतं विज्ञाय सुतामर्धराज्यं च तस्मै विततार । कंसोऽपि जातमात्रोऽहं नद्यां प्रवाहित इति क्रोधेन मथुरापुरं स्वयमादाय मातरपितरौ बन्धस्थौ कृत्वा गोपुरे धृतवान् । विचारविकलाः पापीयांसः कुपिताः किं किं न कुर्युरिति । अथ वसुदेवं महीपतिं पुरमानीय निजानुजां देवकी दत्वा तत्र तं स्थापितवान् महाविभूतिमन्तं तं चकार । एवं सुखेन कंसस्य काले गच्छति सत्येकदाऽतिमुक्तको मुनिभिक्षार्थ राजमन्दिरं प्रविष्टः । तं दृष्ट्वा जीवद्यशा हर्षमाणा तं हास्येनोवाचहे मुने ! देवकी तव लघुभगिनी पुष्पजानन्दवस्त्रं तवैतदर्शयति वस्त्रेण स्वचेष्टितं प्रकाशयतीति । तच्छ्रुत्वा मुनिः कोपं कृत्वा वाग्गुप्ति भित्वा जगाद-मुग्धे ! किं हृष्यसि देवक्या यो भविष्यति पुत्रः स तव भर्तारमवश्यं हनिष्यति । तच्छत्वा जीवद्यशा कोपेन तद्वस्त्रं द्विधा चक्रे। मुनिराह-मुग्धे ! न केवलं तव पतिमेव हनिष्यत्यनेन पितरमपि तव हनिष्यति । इत्युक्ते सा कुपित्वा तद्वस्त्रं पादाभ्याममर्दयत् । तदृष्ट्वा मुनिजगाद-मुग्धे ! अनेन सागरावधिं पृथ्वी नारीमिव पालयिष्यति । जीवद्यशास्तच्छृत्वा गत्वैकान्तं भर्ने निवेदयामास । कंसो भीत्वा हास्येनापि प्रोक्तं मुनेः सफलं भविष्यतीति वसुदेवं राजानं गत्वा सस्नेहमिद
१ कंसस्य तृणविशेषस्य मंजूषा तां । २ तव चेष्टितेन । ३ कुपिता ख. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org