________________
भावप्राभृतं ।
१७३
रतपःफलादस्य राज्ञः पुत्रो भूत्वा अमुं निगृह्य अस्य राज्यं गृह्यासमहमित्यनेन दुष्परिणामेन मृत्वा पद्मावतीगर्भे पुत्रतया स्थितः । सा गर्भिकक्रौर्येण दोहदं चकार-राज्ञो हृदयमांसमद्मीति । तदप्राप्तुवन्ती दुर्बला बभूव । तज्ज्ञात्वा मंत्रिणः प्रयोगेण विहितं दोहदं पूरयन्ति स्म । विद्वांसः किन कुर्युः। तदा सा पूर्णमनोरथा सुतपातकमसूत । मातापितरौ दष्टोष्ठं सभ्रभंगं बद्धमुष्टिं तं दृष्ट्वा न पोषणे योग्योऽयमिति विचिन्त्य तद्विसर्जनोपायं चक्रतुः । कंसमयीं मंजूषामानीय सवृत्तकं कंसं तस्यां निधाय यमुनाप्रवाहे मुमुचतुः। कोशाम्बीपुरे मन्दोदरी नाम कल्पपाली, तया प्रवाहे मंजूषामध्ये स दृष्टः पुत्रतया पालितश्च। तपस्विनां हीनान्यपि पुण्यानि किं न कुर्युः। कैश्चिदिनैर्लभनादिसहं वयः प्राप । आक्रीडमानो निष्कारणं सकलबालकान् चपेटया मुष्टिना दण्डादिना च प्रहारं ददाति वधपापं बध्नाति । तदुराचारोपलंभान् असहमाना मन्दोदरी तं तत्याज पुत्रं । सोऽपि शौर्यपुरं गत्वा वसुदेवपदातिभूत्वा तत्सेवां करोति यावत्। अत्रान्तरे जरासन्धो राजा त्रिखण्डमेदिनीपतिरपि कार्यशेषवान् ववृते । सुरम्यदेशे पोदनापुराधीशं सिंहरथं युद्धे बद्ध्वा य आनयति तस्मै देशार्ध मत्सुतां कालिंदसेनासंजातां जीवद्यशोनामानं ददामीति पत्रमालां राज्ञां समूहान् प्रति प्रेषयामास । तत्पत्रं वसुदेवो गृहीत्वा प्रवर्वाचितवान् । निजाश्वान् सिंहमूत्रेण भावयित्वा तैर्बाह्यं रथमारुह्य संग्रामे तं जित्वा कंसेन निजभत्येन बन्धयित्वा सिंहरथं राजे अर्पयामास । जरासन्धस्तु तुष्ट्वा निजसुतां देशाधै च ददौ। वसुदेवस्तु तां कन्यां दुष्टलक्षणां दृष्ट्रोवाच-देव ! नाहं सिंहरथं बद्धवान् , कर्मेदं कंसः कृतवान् , भवत्प्रेषणकारिणेऽस्मै कन्या प्रदीयतां । तच्छत्वा जरासन्धः कंसस्य कुलं विज्ञातुं मन्दोदरी प्रति दूतं प्रजिघाय । तं दृष्ट्वा
१ जीवयश• ख.। २ प्रतापवान् क.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org