________________
१७२
षट्प्राभृतेवासठाणो तन्नास्ति वासस्थान जन्ममरणस्थानं । जत्थ न दुरुहुल्लिओ जीव हे जीव ! हे आत्मन् ! यत्र त्वं न जातो नोत्पन्नश्च दुरुढुल्लिओ-भ्रान्त इति । वसिष्टस्य कथा यथा--गंगागन्धवत्योर्नद्योः संगमे जठरकौशिकं नाम तापसानां पल्ली बभूव । तत्र वसिष्टो नायकः पंचाग्निव्रतं चरन्नास्ते स्म । तत्र गुणभद्रवीरभद्रनामचारणमुनिवरौ जगदतु:अज्ञानकृतमिदं तप इति । तच्छृत्वा वसिष्टः कुधीः सक्रोधं तयोः पुरतः स्थित्वा पप्रच्छ-कस्मान्मेऽज्ञानतेति । तत्र गुणभद्रो भगवानाह-यतः सत्पुरुषा हि हितभाषिणो भवन्ति । जटाकलापसंजातयूकालिक्षाभिघहनं सततं स्नानेन जटामध्यलग्नमृतमीनकान् दह्यमानकाष्ठमध्यस्थितकीटकान् प्रदर्श्य इदं तवाज्ञानमिति प्राबोधयत् । काललब्धिमाश्रित्य स वसिष्टः सुधीभूत्वा गुणभद्रचरणान्ते तपो निग्रन्थं गृहीत्वा सोपवासमातापनयोगं जग्राह । तत्तपोमाहात्म्यात् सप्तव्यन्तरदेवता अग्रतः स्थित्वा ब्रुवन्ति स्म-मुने! आदेशं देहीति । मुनिराह-इदानीं मम प्रयोजनं नास्ति गच्छत यूयं । जन्मान्तरे मच्छिष्टिं करिष्यथ । एवं तपः कुर्वन् वसिष्टः क्रमेण मथुरापुरीमाजगाम । तत्र मासोपवासी सन्नातापनयोगे स्थितवान् । स उग्रसेनेन राज्ञा दृष्टः । भक्तिवशेन पुर्या घोषणां कारयामास-अयं मुनिर्मद्गृहे एव भिक्षां गृह्णातु नान्यत्रेति । सोऽपि पारणादिने मथुरां जगाम । तत्राग्निमुत्थितं दृष्ट्वा व्याघुट्य वनमाजगाम पुनर्मासोपवासं जग्राह । पुनः पारणार्थ मासोपवासावसाने पुरं गतः । तत्र यागहस्तिनः क्षोभं दृष्ट्वा वनमागतः । पुनर्मासोपवासपारणायां नगर्न गतः । तदा जरासन्धपत्रकं दृष्ट्वा राजनि व्यग्रचित्ते सति पुनर्वलितः । तदा क्षीणशरीरं वसिष्टमुनिं दृष्ट्वा लोको जगाद-अनेन राज्ञा मुनि सरितः स्वयं भिक्षा न ददाति परान् वारयतीति न ज्ञायते कोभिप्राय नृपस्येति । तच्छ्रुत्वा वसिष्टो मुनिः पापोदयान्निदानं चकार । मम दुष्क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org