________________
भावप्राभृतं ।
१७१ पूजयित्वा च यज्ञविधिं युवां कुरुतमिति । तमुपायं श्रुत्वा तौ तथा चक्रतुः । पुनर्विद्याधराधिपो यागविघ्नं कर्तुमागतः । जिनबिम्बानि दृष्ट्वा नारदाय कथयति स्म । यन्मे विद्या अत्र न कामन्तीति स्वस्थानं जगाम । तदनन्तरं यज्ञो निर्विघ्नो बभूव । तदनु विश्वभूः पर्वतश्च सप्तमं नरकं गतौ। दीर्घकालं महादुःखमनुबभूवतुः । अथ महाकालोऽभिप्रेतं साधयित्वा निजरूपं धृत्वा लोकान् प्रत्याह-पोदनापुरे पूर्वभवेऽहं मधुपिंगलो नाम राजा आसं । सुलसानिमित्तं मया महत्पापमुपार्जितं । अहिंसालक्षणो धर्मो जिनेन्द्रैः कथितः स भवद्भिः कर्तव्यो धर्मिष्टैरिति संप्रोच्य अन्तर्दधौ । पुनर्दयाधीः सन् सुदुश्चेष्टा पापस्य प्रायश्चित्तं स्वयं चकार । किं प्रायश्चित्तं ? सम्मोहात्कृतस्य पापस्य निवृत्तिरेव प्रायश्चित्तं तामसौ चकार। अथ दिव्यबोधैर्मुनिभिरित्युक्तं-विश्वभूप्रमुखा हिंसाप्रवर्तका नारका बभूवुः । तच्छत्वा पर्वतोद्दिष्टं दुमार्ग केचित् पापभीरवो नाशिश्रियुः । केचित्तु दीर्घसंसारिणस्तस्मिन्नेव दुर्मार्गे स्थिता इति।
इति श्रीभावप्राभते मधुपिंगलद्रव्यलिंगिनः कथा समाप्ता । अण्णं च वसिमुणी पत्तो दुक्ख नियाणदोसेण । सो णत्थि वासठाणो जत्थ न दुरुहुल्लिओ जीवे ।। ४६॥
अन्यच्च वशिष्टमुनिः प्राप्तः दुःखं निदानदोषेण ।
तन्नास्ति वासस्थानं यत्र न भ्रान्तो जीव ! ॥ अण्णं च वसिमुणी अन्यच्च भावरहितद्रव्यमुनिदृष्टान्तकथानकं वर्तते । तल्कि वसिष्टमुनिः । पत्तो दुक्खं नियाणदोसेण प्राप्तो दुखं निदानदोषेण शत्रुवधप्रार्थननिदानदोषेण नवमेन विष्णुना यः कंसनामा नृपो मारितः स वसिष्टमुनिचरो मलयुद्धे मरणदुःखं प्राप्तः । सो णत्थि
१ तं ख । २ जीवो ग. घ. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org