________________
१७०
षट्प्राभूते
तादृशौ निरीक्ष्य महाकालस्य किंकरास्तापसाकारं गृहीत्वा समूचुः-हे पर्वत ! हे वसो ! युवां भीतिं मा कार्टामित्युक्त्वा स्वयमुत्थापितं सिंहासनं दर्शयामासुः । तत्र स्थितो वसुरुवाच । अहं तत्ववित् कथं बिभेमि पर्वतस्य सत्यवचनं जानन्निति ब्रवाणः कण्ठपर्यन्तं निमग्नवान् । तद् दृष्ट्वा साधवो जगदुः । अनेन मिथ्यावादेन भूपतेरियमवस्था संजाता। हे राजन् ! अद्यापि मिथ्यामार्ग त्यजेति साधुभिः प्रार्थितोऽपि तथापि मूर्यो यज्ञमेव सन्मार्ग कथितवान् । भूम्या कुपितया सर्वाङ्गोऽपि निगीर्णः सप्तमं नरकं जगाम । तदा कालासुरो लोकप्रत्ययनिमित्तं गगने स्थितं सगरवसुरूपद्वयं दिव्यं दर्शयामास । आवां यागश्रद्धया दिवमवापांव यूयं नारदस्य वचनं मा मानयतेति प्रोच्य अन्तर्दधौ कालासुरः। अथ शोकाश्चर्ययुक्तेन जनेन वसुः स्वर्ग गतो न हि न हि नरकं गत इति विसंबदमानेन सह विश्वभूः प्रयागं गत्वा राजसूयविधिं विदधे । महापुराधिपप्रमुखा लोकस्य मूढत्वं निन्दन्तः परमब्रह्मनिर्दिष्टमार्गे मनाक्. स्थितास्तस्थुः। नारदेन धर्ममर्यादा रक्षितेति तं प्रशस्य गिरितटनाम्नी पुरं तस्य ददुः। तापसास्तु दयाधर्मनाशस्य कारणं कलिकालं कलयन्तो यथास्थिति विधुराशया जग्मुः। अथान्यदुर्नारदो दिनकरदेवं विद्याधरं निजमभीष्टं प्रत्युवाच-पर्वतस्य विरुद्धाचरणं त्वया निवार्यतामिति । सोऽपि तथा करिष्यामीति नागान्तं गत्वा निजविद्यया धारपन्नगानाहूय तत्प्रपंचं निवेदयामास । धारपनगास्तु संग्रामे कालासुरं भक्त्वा यागविघ्नं चक्रुः । विश्वभूपर्वतौ तद् दृष्ट्वा शरणान्वेषणौ यावदासातां तावन्महाकालमग्रतः स्थितं ददृशतुः । तदने तं वृत्तान्तं निवेदयाञ्चक्रतुः । कालासुर उवाच-अस्मद्वेषिणो नागास्तैरयमुपद्रवो विहितः । विद्यानुप्रवादोक्ता नागविद्यास्तासां विजंभणं जिनबिम्बानामुपरि न भवति ततः सुरूपान् जिनाकारान् चतुर्षु दिक्षु निवेश्य
१ अवापिव । २ आदिब्रह्म ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org