________________
भावप्राभृतं ।
१६९ संपप्रच्छुः । हे राजन् ! त्वत्तः पूर्वमपि अहिंसाधर्मरक्षणे तत्परा अत्र चत्वारो राजानो हिमगिरिमहागिरिसमगिरिवसुगिरिनामानो हरिवंशजाः पुरा च संजाताः । तत्रैव वंशे विश्वावसुमहाराजः संजातः । ततश्च भवान् संबभूव । तत्राहिंसाधर्मरक्षित्वे किमुच्यते। त्वमेव सत्यवादीति प्रघोषस्त्रिभुवने वर्तते । वस्तुसंदेहे त्वं विषवत् वन्हिवत् तुलावत् वर्तसे । प्रत्ययोत्पादी त्वमेव तेनास्माकं प्रभो ! संशयं छिद्धि । नारदः खल्वहिंसालक्षणं धर्म पक्षं कक्षीचकार । पर्वतस्तु तद्विपरीतमाचिक्षेप । तत्कथयतु भवानुपध्यायस्योपदेशमित्यभ्यर्थितः । गुरुपत्न्या पुरा प्रार्थित उपाध्यायोपदेशं जानन्नपि राजा महाकालोत्पादितमहामोहो दुःषमकालनिकटवर्तित्वात् विषयसंरक्षणानन्दनामरोद्रध्यानतत्परः पर्वतोक्तं तत्वं वर्तते । प्रत्यक्षे वस्तुन्यनुपपन्नता का । पर्वतोक्तयागेन सस्त्रीकः सगरः स्वर्गमवाप । ज्वलन्त प्रदीपं कोऽन्यो दीपो यस्तं प्रकाशयेत् । तेन पर्वतोक्तं यज्ञं स्वर्गसाधनं भयं त्यक्त्वा यूयं कुरुध्वं । इति हिंसानृतानन्दबद्धनारकायुर्मिध्यापापादपवादाच्चाभीरुर्जगाद। तदा ब्रह्माण्डं स्फुटितमिवाकाशे ध्वनिः संजातः, आकाशः खल्वित्याक्रोशं चकोर च । किमाक्रोशयदाकाश: अहो नारद ! अहो तापसाः! पृथिवीपतेर्मुखादीदृशमपूर्व घोरं वचनं संजातमिति । नद्यः प्रतिकूलजलस्रवः संजाताः। सरांसि सद्यः शुष्काणि । रुधिरवर्षणमनारतं बभूव । सूर्यांशवो मन्दाः संजाताः । सर्वा दिशो मलीमसाः सम्पद्यन्ते स्म । भयविव्हलाः प्राणिनः कम्पं दधुः । तदा भूमिर्द्विधा भक्तिं गता । तस्मिन् महारन्ध्रे वसोः सिहासनं ममज्ज । आकाशे स्थिता देवविद्याधरेशा इत्यूचुः-अहो वसुनरेन्द्र महाबुद्धे ! धर्मविध्वसनं मार्ग मा त्वमीदृशं वादीरित्यघोषयन् । सिंहासने निमग्ने सति पर्वतो वसुश्च परिम्लानमुखौ बभूवतुः । तौ
१ महमोंहो. क २ चकारेव. क.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org