________________
vvvvvvv
१६८
षट्प्राभते-- वधाद्धर्मो वर्तते नान्यत्रेति चेन्न वधस्य दुःखप्रत्ययत्वे उभयत्र सादृश्यात् फलेनापि सदृशेन भाव्यं । अथ त्वं एवं वक्षि, पशूनां सृष्टिः स्वयंभुवा यज्ञार्थ कृता तन्न, अन्यथा विनियोगस्यागच्छमानत्वात् । अयमागमोऽतिमुग्धाभिलाषः विदुषां गर्हितः । यद्यदर्थ सृष्टं ततोऽन्यत्र विनियोगेऽ र्थकृत् कथं स्यात् । श्लेष्मादिशमनौषधं ततोऽन्यत्र कथमुपयोगि स्यात् । क्रयविक्रयादौ हलानोभारवाहनादौ महादोषः स्यात् । दुर्बलं त्वां वादिनं दृष्ट्वा सन्मुखमागत्य ब्रूमः । यथा शस्त्रादिभिः प्राणिघाती पापेन बध्यते तथा मंत्रादिनापि घातकृत्पापेन बध्यते एवाविशषत्वात् । हहो पर्वत ! पश्वादिलक्षणा सृष्टिय॑ज्यतेऽथवा क्रियते ? चेत्क्रियते तर्हि खपुष्पादिकमप्यविद्यमानं कथं न क्रियते । अथ विद्यमानैव सृष्टिर्यज्ञार्थ व्यज्यते तर्हि पूर्ववचनं करणप्रतिपादकमनर्थकं स्यात् प्रदीपज्वलनमेव घटादेः पूर्वमन्धकारप्ररूपकं यतः । अनावृतस्यैव व्यक्तिः क्रियते इति चेत्तर्हि सृष्टिवादो भवद्भिः पूर्व क्रियतां । इति नारदेन कृतमुपन्यासमाकर्ण्य सर्वेऽपि सभास्तारास्तं तुष्टुवुः । अथ सभ्या ऊचु:द्वयोर्विवादो वसुना चेच्छेद्यते तर्हि स एव अभिगम्यतां । इति श्रुत्वा ताभ्यां नारदपर्वताम्यां सर्वापि संसत् स्वस्तिकावतीमुच्चचाल । तत्र पर्वतः सर्व वृत्तान्तं स्वमात्रे निवेदयामास । सा तेन युता वसुं ददर्श। पुत्र वसो! पर्वतोऽपरिणीतः । तपोयता गुरुणापि तवायमर्पितः । नारदेन सह तव प्रत्यक्षे वादो भविष्यति, तत्र यद्यस्य भंगो भविष्यति तदास्य यमगृहप्रवेशो भविष्यतीति निश्चिनु । अस्य शरणमन्यो न वर्तते। वसुरुवाच । मातः ! गुरुशुश्रूषकोऽहं वर्ते । “गुरुवद्गुरुपुत्रं गुरुकलत्रं च पश्येत्" इत्यहं नीतिज्ञोऽस्य जयं करिष्यामि । त्वं भैषीर्मा । अथान्येद्युस्ते तथाविधं सिंहासनमारूढं वसुं ददृशुः । तत्र विश्वभूप्रभूतयः १ दुर्वलत्वं ख.।
Jain Education International
Tona!
For Private & Personal Use Only
www.jainelibrary.org