________________
भावप्राभृतं ।
१६७.
प्रकाशितः, धिक् पर्वतं, निवारणीयोऽयमुयायेन केनचित् पापपण्डितोऽयमिति साकेतमागताः । यथाविधि विश्वभुवं विलोक्य ऊचुः -ये पापिनो नरा भवन्ति तेऽपि अर्थार्थ कामार्थं च प्राणिनां वधं न कुर्युः । केsपि कापि धर्मार्थं प्राणिनां घातकाः किं सन्ति । अहो पर्वत ! वेदविद्भिर्ब्रम्हनिरूपिते वेदे अहिंसक एव वेद उक्तः । अहिंसा तु मातेव सखीव कल्पवल्लीव जगते हितोक्ता इति पूर्वर्षिवाक्यस्य प्रामाण्यं त्वच्छता कर्मनिबंधनं कर्मैतद्बधप्रायं त्याज्यमेवेति तापसैरुक्तं । ते तापसाः सर्वप्राणिहितैषिणः । विश्वभूरुवाच - भोस्तापसाः ! साक्षात्स्वर्गसाधनं दृष्टं कर्म कथं त्याज्यं मयेति । नारदो विश्वभुवं प्रत्याह-सचिवोत्तम ! त्वं विद्वान् किमिदं कर्म स्वर्गसाधनं भवति ? । सपरीवारं सगरं निर्मूलयितुं कांक्षता केनचित्कुहकेनायमुपायः कृतो मुग्धानां मोहकारणं । ततः शीतोपवासादिकं कर्म स्वर्गसाधनमापगमोक्तं त्वयाप्याचर्यतां । विश्वभूः पर्वतं प्राह - पर्वत ! नारदः किलैवं वक्ति तत्त्वया श्रुतं ! पर्वतोऽसुरोक्तेन शास्त्रेण मोहितो दुर्मतिः प्राह - हंहो सचिवोत्तम । इदं शास्त्रं नारदः किं न शुश्राव । मम गुरुरस्य च मम पितैवासीत् । न चान्यः कोऽपि एष नारदः । तदापि मयि समत्सरः । इदानीं किं वोच्यते । ममे गुरोर्धर्मभ्राता स्थविरनामा जगति विख्यातः । सोऽपि श्री रहस्यं यागमृत्युफलमेव प्रतिपादितवान् । मयापि साक्षात्प्रकटीकृतं । यदि तव प्रत्ययो नास्ति तर्हि विश्ववेदसमुद्रपारगं वसुं पृच्छेः । यः सत्येन गगने स्थितो वर्तते । तच्छ्रुत्वा नारद उवाच - को दोषः स एव पृच्छयतां । इदं तावद्विचारार्ह, चेद्वधोऽत्र धर्मसाधनं तर्हि अहिंसादानशीलादि पापप्रसाधनं भवेत् । एवं चेदस्ति तर्हि दासादीनां परमागतिरस्तु सत्यधर्मतपोब्रह्मचारिणां अधोगतिरस्तु । यज्ञे पशु
I
१ मद्गुरोः ख. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org