________________
१६६
षट्प्राभृतेतत्राभिज्ञानं । मुनिराह-राजन् सप्तमे दिने तव मस्तकेऽशनिः पतिप्यति इत्यभिज्ञानेन त्वं सप्तमे नरकं यास्यसि । तदाकर्ण्य राजा भीत्वा पर्वताय निवेदयामास । पर्वतः प्राह-राजन्नसौ नग्नः क्षपणकः किं वेत्ति तथापि यदि तव शंका वर्तते तदत्र शान्तिर्विधीयते इति वचनैस्तस्य मनः सन्धार्य शिथिलीचकार। पुनः सुमित्रमेव यज्ञं प्रारब्धवान् । ततः सप्तमे दिने पापासुरस्य मायया सुलसा आकाशे स्थिता देवत्वं प्राप्ता पूर्वपश्वग्रेसरी यागमृत्युफलेनैषा मया देवगतिर्लब्धा । तं प्रमोदं तव निरूपयितुमहं विमानेनागता । तव यज्ञेन देवाः पितरश्च प्रीणिता इत्यभाषत । तद्वचनात्प्रत्यक्षं यागमृत्युफलं दृष्टं, जैनमुनेर्वाक्यमसत्यं जातं । तदनु राजा तीत्रेण हिंसानुरागेण सद्धर्मद्वेषेण संजातदुष्परिणामेन मूलोत्तरविकल्पितात् तत्प्रायोग्यसमुत्कृष्टदुष्टसंक्लेशसाधनात् नरकायुराद्यष्टकर्मस्वोचितस्थितेः अनुभागबन्धनिकाचितबन्धने सति भीषणाशनिरूपेण कालासुरे तन्मस्तके पतिते सति यागकर्मासक्तनिखिलप्राणिभिः सह सगरः सप्तमे नरके पपात । स कालासुरस्तत्क्षणेन महाक्रोधस्तं दण्डयितुं तृतीयनरकपर्यन्तं पृष्ठतो जगाम । तमदृष्ट्वा सांकेतमागतः । विश्वभूप्रभृतिवैरिवर्गमारणार्थ निःशूकः सुलसासंयुक्तं सगरं विमानमारूढं व्योम्न दर्शयामास । पर्वतप्रसादेन यज्ञपुण्येनाहं स्वर्ग गतः सुखं प्राप्तवानिति प्रशशंस । सगरपरोक्षे विश्वभूसचिवो राजा जातः। महामेधे उद्यमं चकार । महाकालासुरेण विमानगता देवाः पितरश्चाकाशे सर्वेषां व्यक्तं दर्शिताः। ते ऊचुः-भो विश्वभूस्त्वया महामेधः कृतः पुण्यवता त्वत्प्रसादेन वयं सर्वेऽपि वषट्कृताः स्वर्गसुखं प्राप्ता इति स्तुतिं चक्रुः । नारदस्तापसाश्च तच्छ्त्वानेन दुरात्मना एष दुर्मार्गोऽधिकृतो लोकस्य
पूर्व ये पशवो हतास्तेषां मध्येऽहमग्रेसरी मुख्यदेवत्वं प्राप्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org