________________
भावप्राभृतं ।
१६५
साकेतपुरमध्यास्य शान्तिकादिफलप्रदं हिंसायागं समारभ्य प्रभावं वयं कुर्महे । इति पर्वतमुक्त्वा वैरिविनाशार्थ निजतीव्रदैत्यान् सगरराष्ट्रस्य बाधां ज्वरादिभियूयं कुरुध्वमिति संप्रेष्य पर्वतेन युतः साकेतं महाकालासुरो गतः। पर्वतो मंत्रगर्भिताशीर्वादेनालोक्य सगरस्य स्वप्रभावं प्रकाशितवान्। हे राजन् ! त्वद्देशप्राप्तं विषममशिवं अहं सुमित्रेण यज्ञेन लघु शोषयिष्यामि ।
“यज्ञार्थ पशवः सृष्टाः स्वयमेव स्वयंभुवा । यज्ञो हि वृद्धयै सर्वेषां तस्माद्यज्ञे वधोऽवधः॥" इति कारणात् स्वर्गमहासुखसाधनं पुण्यमेव भविष्यतीति पापी प्रत्याय्य तं जगाद । हे राजन् ! यागसिद्धयर्थं पशूनां षष्ठिसहस्राणि तद्योग्यमन्यद्व्यं च संगृहाण । सगरोऽपि सर्वे मेलयित्वा तस्मै समर्पितवान् । पर्वतो यागं प्रारभ्य पशूनभिमंत्रयामास । महाकालासुरस्तान् वषट्कृतान् शरीरेण सह स्वर्गं गतोऽयं स्वर्ग गतोऽयमिति विमानारूढानाकाशे नीयमानान् दर्शयामास । देशस्याशिवोपसर्ग तदैव निराचकार । तद् दृष्ट्वा मुग्धाः प्राणिनस्तद्वंचनया मोहिताः सन्तः स्वर्गगतये स्पृहयन्तो यागमृति भशमाचकांक्षुः । सुमित्रयज्ञावसाने जात्यश्वमेकं विधिपूर्वक हुतवान् , राजाज्ञया सुलसां च खलो वषट्चकार । प्रियकान्तावियोगदुःखदावानलज्वालाभिः प्लुष्टकायो राजा नगरं प्रविष्टः, शय्योपरि शरीर निचिक्षेप । प्राणिहिंसनं महदिदं वृत्तं किमयं धर्मः किमधर्मः इति संशयानः स्थितः । अन्यस्मिन्नहनि यतिवरनामानं मुनिमाभवन्ध विज्ञप्तवान् । भट्टारक ! मयारब्धं कर्म पुण्यं पापं वा सम्यकथय । यतिवरः प्राहधर्मशास्त्रबाह्यमिदं कर्म कर्तारं सप्तमं नरकं प्रापयेत् । स्वामिन्नस्ति
१ यस्मिन् यज्ञे चतुःषष्ठिसहस्राणां पशूनां वधः क्रियते स सुमित्रो यज्ञः कथ्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org