________________
१६४
षट्प्राभृते
त्वात् पर्वतोऽवन्यामधर्मं प्रवर्तयितुं दुरात्मोपन्यास्थत् । पतितोऽयमयोग्यः सहसंभाषणादिषु इत्युक्त्वा चपेटाभिस्ताडित: निर्भत्सितोऽयं पापात्मा लोके घोषितः । दुर्बुद्धेः फलमवेदृशं भवति । एवं सर्वैरपि बहिष्कृतो मानभंगाद्वनं जगाम । तत्र ब्राह्मणवेषेण कृतान्तारोहणासन्नसोपानपदवीमिव बलीरुद्वहता अन्धचक्षुषेक मुहुः स्खलता बिरलेन सितेन मूर्धजेन ततं राजतं शिरस्त्राणं समीपयमजाद्भयादिव दधता जराङ्गनासमासन्नसुखेनेव मीलच्चक्षुषा चलच्छिन्नकरेण करिणेव कुपितसर्पेणेव उर्ध्वश्वासिना राजवल्लभेनेवाऽग्रतो स्फुटं पश्यता भग्नपृष्टेन अपटुजल्पितेन असमेन योग्यदण्डेन राज्ञेव त्रिगुणीकृतमुपवीतं - धारयता विश्वभूनृपसुलसासु निजं बद्धक्रोधं वक्तुमिव स्वाभिमतारंभसिद्धिगवेषणा पर्वते पर्यटन पर्वतो महाकालासुरेण दृष्टः सन् तमभिगम्यानम्य चाभिवादनमभ्यधात् । महाकालस्तं समाश्वास्य सादरं तव स्वस्त्यस्त्वित्यु वाच । तमविज्ञातपूर्वत्वात्प्राह त्वं कुतस्त्यो वने पर्यटनं कस्मादिति । पर्वतस्तु निजवृत्तान्तमादितः प्राह । तच्छ्रुत्वा महाकालचिन्तयामास । मम शत्रुं । । सरं निर्वेशीकर्तुं समर्थ एष स्यात् । भोः पर्वत ! तव पिता स्थंडिल: अहं विष्णुरूपमन्युः । एतौ द्वावपि भोमोपाध्यायशिष्यौ शास्त्राभ्यासमकारिषातां । त्वत्पिता मम धर्मभ्राता तमहं दृष्टुमागतः ममागमनं त्वन्तर्गडु जातं । पुत्र पर्वत ! मा त्वं भैषीः तव शत्रुविध्वंसेऽहं सहायो भविष्यामि । इति क्षीरकदम्बपुत्रेष्टार्थस्यानुगता अथर्वणगताः षष्ठिसहस्रप्रमिताः पृथक् ऋचो वेदरहस्यानीति स्वयमुत्पाद्य पर्वतमध्याप्य शान्तिपुष्ट्यभिचारात्मक्रियाः पूर्वोक्तमंत्रणैर्निशितोः पवनोपेताग्निज्वालासमा इंष्टेः फलमुत्पादयिष्यन्ति पशुहिंसनात्प्रयुक्ताः सत्य इति । ततः
१ विशिताः ख । २ दृ. ख. ।
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org