________________
भावप्राभृतं ।
१६३ न भवति यतो मयि पाठयत्यपि मत्पुत्रो जड इति तेन घिगेकान्तं मतं तत्कुमतमेव । कारणानुगतं कार्यं कचिद्भवत्येव कचिन्न भवत्येवेत्यनेकान्तमतं सत्यमित्यनेकशस्तुष्टाव । नारदस्य योग्यत्वं ज्ञात्वा नारद ! त्वमेव सूक्ष्मबुद्धिर्यथार्थज्ञाता | अद्यप्रभृत्युपाध्यायपदे त्वं मया स्थापितः । सर्वशास्त्राणि त्वया व्याकर्तव्यानि इति तं प्रपूज्य प्रावर्धयत् । धीमतां सर्वत्र गुणैरेव प्रीतिः । निजसन्मुखं स्थितं पुत्रं जगाद -त्वं विवेकमन्तरणैव एतद्विरूपकं चकर्थ, शास्त्रादपि तव कार्याकार्यविवेको नास्ति, मच्चक्षुः परोक्षे त्वं अरे कथं जीविष्यसि मूर्ख ! । एवं शौकेन दत्तशिक्षो नारदे बद्धवैरो बभूव । कुधियामीदृशी गतिर्भवति । उपाध्यायस्त्वेकदा गृहादिकं त्यजन् वसुं गत्वोवाच- पर्वतस्तन्माता च द्वावपि मन्दधियौ तथापि मत्परोक्षे त्वया सर्वथा भद्र ! पालनीयाविति । वसुरुवाच - हे पूज्यपाद ! भवदनुग्रहादहं प्रीतोऽस्मि । एतदनुक्तमेव सिद्धं । अस्मिन् कार्ये ममेदं किं वक्तव्यं । अत्र सन्देहो न कर्त्तव्यः । यथोचितं परलोकं कर्तुमर्हति भवान् । इति मनोहरकथाम्लानमालया द्विजोत्तमं नृप आर्च | क्षीरकदम्ब उपाध्यायस्तु सम्यक्संयमं प्राप्य संन्यासं कृत्वोत्तमं स्वर्गलोकमवाप । पर्वतस्तु पितृस्थानमध्यास्य विश्वदि शिक्षाणां व्याकर्तु रतिं चकार । तस्मिन्नेव नगरे नारदो विद्वज्जनान्वितः सूक्ष्मबुद्धिर्विहितस्थानो व्याख्याया यशो बभार । एवं तयोः काले गच्छति सत्येकदा विद्वत्सभायां "अजैर्यष्टव्यमिति” वाक्यस्यार्थप्ररूपणे महान् विवादो बभूव । नारदः प्राह- अंकुरशक्तिरहितं यवबीजं त्रिवर्षस्थं अजमिति कथ्यते तद्विकारेण वन्हिमुखे देवार्चनं विद्वांसो यज्ञं वदन्ति । पर्वत उपन्यसति स्म - अजशब्देन पशुभेदस्तद्विकारेण हिरण्यरेतसि होत्रं यज्ञो विधीयते । इति तयोः सुधीप्रध्योरुपन्यासं श्रुत्वा ब्राह्मणमुख्याः साधवः प्राहुः प्राणिववाद्धर्मो न भवति । नारदे मत्सरि
१ द्विरुक्तोऽयं इति शब्दः क. पुस्तके |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org