________________
१६२
षट्प्राभूते
स्त्रिय इत्यनुमानात् । ततो वनान्तरात्कश्चिदागत्य पुरसमीपे करिण्यारूढं स्त्रियं नयन् पुरं प्रति पश्चिमपादाभ्यां प्रयाणके स्वमूत्रघट्टनात् करिणीमकथय । दक्षिणे भागे तरुवीरुद्धंगेन वामलोचनेऽन्धां जगाद । मार्गात्प्रच्युत्य श्रमादारूढयोषितः शीतच्छायाभिलाषेण पुलिनस्थले सुप्ताया उदरस्पर्शमार्गेण गुल्मलग्नदशया स्त्रियं विवेद । करेणुश्रितमार्गे गृहोद्यत्सितकेतुदर्शनेन पुत्रजन्मोक्तवान् । तच्छृत्वा विप्रो निजापराधाभावं भार्याया अकथयत् । तदा पर्वतमाता प्रसन्ना जाता । प्रिये ! मुनिना भाषितं यत्पर्वतो नरकं यास्यति । तत्प्रतीत्यर्थ भार्या स्वयं च एकान्ते गत्वा पिष्टेन द्वौ बस्ती निर्माय पुत्रच्छात्रभावपरीक्षणार्थ द्विजोत्तम एक पुत्राय द्वितीयं छात्राय ददौ । परादृश्यप्रदेशे गत्वा गन्धपुष्पमंगलैरचित्वा कर्णच्छेदं कृत्वा एतावद्यैवानयतं युवां । तत्र पर्वतः पापी अस्मिन् वने न कोऽपि वर्तते इति कर्णौ छेदयित्वा पितरमागत्य पूज्य ! यथा त्वयोक्तं मया तथैव कृतमित्यवदत् । नारदस्तु वनं गत्वा विचारयति गुरुणोक्तमदृश्यप्रदेशेऽस्य कर्णौ छेदनीयाविति । चन्द्रः पश्यति । रविनिरीक्षते । मक्षत्राणि विलोकन्ते । ग्रहास्तारकाश्च पश्यन्ति । देवता निरीक्षन्ते । सन्निहिताः पक्षिणो मृगजातयश्च निषेढुं न शक्यन्ते इति विचार्य कर्णयोश्छेदमकृत्वा गुरुसमीपमागतो नारदः। यतोऽयं भव्यात्मा वनेऽदृष्टदेशस्यासंभवात् , नामस्थापनाद्रव्यभावानां विचारचतुरः पापापख्यातिकारणक्रियाणामकर्तव्यत्वादहमिमं छागं विच्छिन्नावयवं नाकार्षमित्युवाच । तच्छृत्वा क्षीरकदम्बः स्वपुत्रस्य जडत्वभावं ज्ञात्वा विचारयामास । यन्मिथ्यादृष्टय एकान्तेन ब्रुवन्ति कारणात्कार्यसिद्धिरिति तदसत्यं अत्र कारणं गुरुः कार्य शिष्यबुद्धयुत्कर्षः तत्त्वेकान्तेन
१ पुस्तकद्वयेऽपि ववेद इति पाठः । २ द्वे. ख.। छाग. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org