________________
भावप्राभृतं ।
१६१
-
~
~-
~
प्राह-मृषा वार्तासौ । मनस्यसहमानः पणितबन्धनं बबन्ध । तत्र किंचिदन्तरं गत्वा नारदोक्तं सद्भूतं ज्ञात्वा विस्मित्याने गत्वा करेणुमार्ग ददर्श । 'तं दृष्ट्वा नारद उवाच-एषा हस्तिनी गता, सा वामलोचनेनान्धा, तामारूढा गर्भिणी स्त्री, पट्टाम्बरसहिता, अद्य पुत्रमजीजनत् । अन्धसर्पविलप्रवेशवत् पूर्वोक्तं तव वचनं यादृच्छिकं सत्यमभूत् , इदं तु मिथ्या मयाऽविदितं किमस्तीति स्मित्वा स सासूयं विस्मयं चित्ते प्राप्य तदसत्यं कर्तुं हस्तिनीमनुगतः पुरं प्रविवेश । नारदोक्तं तथैव ददर्श। गृहमेत्य पर्वतो मातुरने. जगाद । किं जगाद ? मातः ! मे पिता यथा नारदं शिक्षितवाँस्तथा मां नापीपठत् , अस्य चेतसि नारदो वर्तते नाहमिति । तेन वचनेन विप्राया हृदयं विदारितं । पापोदयाद्विपरीतं तथा विचारितं । शोकं च ब्राह्मणी चकार । क्षीरकदम्बस्तु स्नात्वा अग्निहोत्रादिकं कृत्वा भुक्त्वा च स्थितः । तं प्रति ब्राह्मण्युवाच-खया पुत्रो न शिक्षितः, लोको व्युत्पादितः । क्षीरकदम्ब उवाच-प्रिये ! अहं निर्विशेषोपदेश: पुरुषं पुरुषं प्रति ददामि मतयस्तु भिन्नाः सन्ति । तेन नारदो कुशलो बभूव । प्रिये ! त्वत्पुत्रः स्वभावेन मन्दो नारदेऽसूयते किं क्रियते । इत्युक्त्वा स्त्रिया विश्वासमुत्पादयितुं पर्वतसमीपे नारदं पप्रच्छ । हे नारद ! त्वं वने भ्राम्यन् केन कारणेन पर्वतस्य बहुविस्मयं कारितवान् । नारद उवाच-स्वामिन् ! पर्वतेन सह वैनं गच्छन् नर्मकथापरः पीतवारां मयूराणां संघी नद्या निवर्तने स्वचन्द्रककलापाम्बुमध्यमजनगौरवात् भीत्वा व्यावृत्य विमुखं कृतपश्चात्पदस्थितिः शिखी च गतवानेकः । शेषास्त्वीषजलार्दिताः पत्रभागं विधूय अगुः । तं दृष्ट्वाहमुक्तवान्-पुमानेकः शेषाः
१ तद्, क. २ अभूत्. ख. । ३ वने. ख.। ४ मयूरीणां. ख. । ५ सद्यो. ख. । ६ नद्यातिवर्तते ख.।
षट. ११
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org