________________
षट्प्राभूतेस्यास्य कि नामकस्य किं कुलं को भावः प्रान्ते कस्य का गतिर्भविष्यतीत्युक्ते एकः प्राह-अस्मत्समीपगो वसुः, राज्ञः सुतः, तीव्ररागादिदूषितः, हिंसाधर्म विनिश्चित्य नारको भावी । द्वितीयो मुनिः प्राह-मध्यस्थितो पर्वतः, द्विजपुत्रः, दुर्बुद्धिः क्रूरः,महाकालोपदेशादथर्वणं पापशास्त्रं पठित्वा दुर्मार्गदेशको हिंसैव धर्म इति रौद्रध्यानपरायणो बहून् नरके प्रवेश्य स्वयमपि नरकं यास्यति । तृतीयो मुनिरुवाच-एष पश्चास्थितो नारदः, द्विजः, धीमान् , धर्मध्यानपरायणोऽहिंसा लक्षणं धर्म श्रितानां व्याकुर्वाणो भावी गिरितटाख्यपुरस्य स्वामी भूत्वा दीक्षित्वा सर्वार्थ सद्धि यास्यति। तन्मुनित्रयोक्तं श्रुतधरः श्रुत्वा साधु पठितं निमित्तं भवद्भिरिति तुष्टाव । क्षीरकदम्ब उपाध्यायः समीपतरतरुसमाश्रयस्तदाकर्ण्य तदेतद्विधिचेष्टितमशुभं धिगिति भणित्वा किमत्र मया क्रियते इति विचिन्त्य तत्रस्थित एव मुनीनभिवन्द्य वैमनस्येन शिष्यैः सह नगरं प्रविश । तदनन्तरमेकवर्षेण शास्त्रेण बालत्वे पूर्णे जाते विश्वावसुवसवे राज्यं दत्वा दीक्षां जग्राह । वसुनिष्कण्टकराज्यं कुर्वन्नेकदा वनं क्रीडितुं गतः। तत्राकाशे उड्डीयमानाः पक्षिणः स्खलित्वा पतितान् दृष्ट्वा चिन्तयामास । आकाशे उड्डीयमाना यत्पक्षिणः पतन्ति तत्र किमपि कारणं भविष्यतीति तस्मिन् प्रदेश बाणं मुमोच । सोऽपि तत्र स्खलितः, तत्र स्वयं जगाम सारथिना सह तत्र पस्पर्श । आकाशस्फटिकस्तंभं विज्ञाय परैरविदितं तमानयामास । तस्य पादच तुष्टय पृथु निर्माप्य तसिहासनमारुह्य नपादिभिः सेव्यमानः सत्यमाहात्म्यात् खे सिंहासने स्थितो वसुरिति विस्मयमानेन लोकेन घोषितोऽति तस्थौ। एवमस्य काले गच्छति पर्वतनारद वेकदा समित्पुष्पार्थ वनं गतौ। तत्र नदीतटे मयूग जलं पीत्वा गतास्तन्मार्गदर्शनान्नान्दः प्राह-ये मयूराः पानीयं पीत्वा गतास्तेष्वेको मयूरः सप्तमयूर्यो वर्तन्ते । तछत्वा पर्वतः
१ व इति ख. पुस्तके । २ दुःखेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org