________________
भावप्राभृतं ।
१५९ निर्मत्सरं राजमण्डलं तु तुतोष । अनयोरनुरूपः संगमो विधात्रा कृत इति । विवाहविधौ च जाते सगरः सुलसासहितस्तत्र कानिचिदिनानि तत्र सुखेन स्थित्वा साकेतं गतः । भोगसुखमनुभवन् स्थितः । मधुपिगलस्तु साधुः कस्मिंश्चित्पुरे भिक्षार्थ प्रविशन् केनचिजैनेन नैमित्तिकेन दृष्टः । राज्याहलक्षणोऽयं भिक्षाशी किंलक्षणशास्त्रेणेति निनिन्द । तदाकापर एवं बभापे । राज्यलक्ष्मी भुंजान एष सगरमंत्रिणा वृथा दूषितः कृत्रिमं सामुद्रिकं रचयित्वेति लजितस्तपो जग्राह । सुलसा सगरं च तच्छुत्वा कोपाग्निदीपितो निदानं चक्रे, तपःफलेन सगरकुलं सर्व जन्मान्तरे निर्मूलयिष्यामीति । ततोऽसौ मृत्वाऽसुरेन्द्रस्य प्रथममहिषानीके चतुःषष्ठिसहस्रासुरस्वामी बभूव । स महाकालासुरनामा निजदेवैर्वेष्टितो विभंगन पूर्वभवसम्बन्धं ज्ञात्वा पापी चेतसा मंत्रिणि तत्प्रभौ सगरे च प्ररूढवैरोऽपि तौ हन्तुनिच्छन्नत्युग्रं पापं तयोरिच्छन् तदुपायं सहायांश्च संचिन्त्य स्थितः । मम महापापं भविष्यतीति नाचिन्तयत् धिग्मूढतां । तदभिप्रायसाधनमिदमत्रान्यत्प्रकृतं । तथा हि । अत्र भरते धवलदेशे स्वस्तिकावति पुरे हरिवंशजो राजा विश्वावसुः । देवी श्रीमती । पुत्रो वसुः । तत्रैव क्षीरकदम्बनामा सर्वशास्त्रज्ञो ब्राह्मणोऽध्यापकोत्तमः पूज्यो विख्यातश्च । तत्पुत्रः पर्वतो देशान्तरागतो नारदो विश्वावसुपुत्रो वसुश्च एते त्रयोऽपि विद्यानां पारं प्रापुः । तेषु पर्वतोऽकीर्तिविपरीतार्थग्राही वसुनारदौ यथोपदिष्टार्थग्राहिणौ । ते त्रयोऽपि सोपाध्याया दर्भादिकं चेतुं वनं गताः। तत्र गिरिशिलोपरि स्थितः श्रुतधरगुरुः । मुनित्रयं तस्मादष्टाङ्गनिमित्तं पपाठ । तत्समाप्तौ. स्तुतिं कृत्वा सुखं तस्थौ । तस्य निपुणतापरीक्षार्थ गुरुः पप्रच्छ । भो मुनित्रय ! अधियानस्य छात्रत्रय
१ स इति पाठः ख. पुस्तके नास्ति । २ अभिलषन्निति ख. पुस्तके। ३ संचित्य इति ख. पुस्तके। ४ नाचिन्तमात्. ख. । यन्. क.। ५ मुनिरिति ख. पुस्तके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org