________________
१५८
षट्प्राभृतेविलोक्यन्ते ते सर्वेऽपि साकेतपतो सगरे सन्तीत्युवाच । तच्छत्वा सा तत्र रक्ता बभूव । अतिथिस्तज्ज्ञात्वा युक्तिवचनैस्तं दूषयित्वा हे पुत्रि ! सुरम्यदेशे पोदनापुरे बाहुबलिकुले सर्वराजसु ज्येष्ठो मम भ्राता तृणपिंगल: राज्ञी सर्वयशास्तत्पुत्रो मधुपिंगलः सवैर्वरगुणैराड्यो नवे वयसि वर्तते स त्वया वरमालया मदाक्षेपेण माननीयः। साकेतपतिना सपत्नीदुःखदायिना किं करिष्यसि ? इत्यवदत् । सुलसा तु तदुपरोधं नामन्यत । अतिथिरुपायेन मंदोदरीप्रवेशं तत्र निवारयामास । सा निजस्वामिन नष्टं कार्य जगाद । राजाह-विश्वभूर्मन्निन् ! इदं मम कार्य त्वया सर्वथा कार्य। तच्छ्रुत्वा तेन विश्वभुवा स्वयंवरविधानं नाम सामुद्रिक शास्त्रं नवीनं रचयित्वा तत्पुस्तकं मंजूषायां निक्षिप्य यथा कोऽपि न जानाति तथा वनमध्ये भू-तिरोहितं निदधे । तत्रोद्यानभूशोधनं कारयन् हलाने लग्नां मंजूषां समानीय मया लब्धेयं चिरन्तनशास्त्रसंयुक्ता मंजूषा । स्वयमजानन्निव राजपुत्राणामने वाचितवान् । वरकदम्बके कन्या पिङ्गाक्षं मालया न संभावयेत् । संभावयेच्चेत्तर्हि सा कन्या म्रियते । पिङ्गाक्षेण सभामध्ये न प्रवेष्टव्यं । पापभयाल्लजितव्यं च प्रधानान्न बिभेति च न लजते तदा स पापी निर्घाटनीयः । तत्सर्वं श्रुत्वा तद्गुणत्वाल्जया निर्गत्य हरिषेणगुरुपादमूले दीक्षां जग्राह । तज्ज्ञात्वा सगरो विश्वभूश्च मुदं प्रापतुः । अन्ये च कुटिला मुदं प्रापुः। सत्पुरुषास्तद्वान्धवाश्च विषादं प्रापुः । वंचनाकृतं पापमर्थिनो न पश्यन्ति। अथाष्टदिनानि महापूजां जिनेशिनामभिषेकं च कृत्वा स्नातालंकृतां शुद्धतिथिवारादिसन्निधौ कन्यां पुरोहितो रथमारोप्य नीत्वा सुभटपरिवृतां भद्रासनारूढान् नृपान् स्वयंवरमण्डपे यथाक्रमं पृथक्कुलजात्यादिकं विनिर्दिश्य विरराम | सा तु समासक्ता सगरं वरमालया वरयामास ।
१ युक्त इति ख. पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org