________________
५७
भावप्राभृतं । चक्रं विहाय निजदक्षिणबाहुसंस्थं
यत्प्राव्रजन्ननु तदेव स तेन मुंचेत् । क्लेशं किलाप स हि बाहुबली चिराय
मानो मनागपि हर्ति महतीं करोति ॥१॥ महुपिंगो णाम मुणी देहाहारादिचत्तवावारो। सवणत्तणं ण पत्तो णियाणमित्तेण भवियणुय ॥ ४५ ॥
मधुपिङ्गा नाम मुनेः देहाहारादित्यक्तव्यापारः ।
श्रमणत्वं न प्राप्तः निदानमात्रेण भव्यनुत ! ॥ महुपिंगो णाम मुणी मधुपिंगो नाम मुनिः। देहाहारादिचत्तवावारो शरीराहारादि यक्तव्यापारः । सवणत्तणं ण पत्तो श्रवणत्वं दिगम्बरत्वं न प्राप्तः द्रव्यलिंगी बभूवेत्यर्थः । णियाणमित्तेण भवियणुय निदानमात्रेण सगरं सकुटुम्ब क्षयं नेष्यामीति निदानमात्रेणेति हे भविकनुत ! भव्य मी स्तुनमुने। इयं कथा महापुराणादिषु विश्रुता वर्तते। तथा हि। अथेह भरतक्षेत्रे चारणयुगलनगरे राजा सुयोधनः, राज्ञी अतिथिः, सुता सुटसा । तस्याः स्वयंवरे सर्वत्र दूता गताः । सर्वे नृपाः चारणयुगले पुरे मिलिताः । अयोध्यापतिस्तत्र सगर आगन्तुमुद्यमं चकार । पश्चास्नाने सति तैलोपलेपिना सगरेण राज्ञा पलितं केशं दृष्ट्वा तत्र गर्भने विरक्तेन बभूवे । तत्रावसरे मन्दोदरी धात्री राजानमुवाच । देव ! नवं पलितमिदं तवापूर्वद्रव्यलाभं वदति । तत्रैव विश्वभूमंत्री कथयति । हे राजन् ! सुठसा परनृपान् मुक्त्वा त्वानेव वरयिष्यति तथा कुशल या करिष्यामि। तच्छत्वा हृष्ट्वा राजा तत्र चतुरङ्गसेन्येन चचाल । तत्र केषुचि देवसेषु गतेषु मन्दोदरी सुलसान्तिकं गत्वा है पुत्रि! कुलरूपसान्दर्यविक्रमनयविनयविभवबन्धुसम्पादयो ये गुणा वरे
१ मनास विरक्तन इति ख. पुस्तके । २ हृष्टो, इति ख. पुस्तक. । ३ कुलं रूपं इति क. पुस्तके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org