SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १५६ षट्प्राभृते भावविमुतो मुत्तो ण य मुत्तो वंधवाइमित्तेण । sa भाविऊण उज्झसु गंधं अब्भंतरं धीर ॥ ४३ ॥ भावविमुक्तो मुक्तः न च मुक्तः बान्धवादिमात्रेण । इति भावयित्वा उज्झय गन्धमभ्यन्तरं धीर ! ॥ 7 भावविमुतो मुत्तो बान्धवादीनां प्रेमलक्षणेन भावेन विमुक्तो रहितो मुनिर्विमुक्तः कथ्यते । ण य मुत्तो बंधवाइ मित्तेण न च नैव मुक्तो यतिरुच्यते कीदृश: ? बान्धवादिकुटुम्बेन मुक्तस्त्यक्तो मुक्त उच्यते बान्धवादिमात्रेण मुक्तो मुनिर्नोच्यते, किं तर्हि उच्यते-गृहस्थ एवोच्यते इति भावार्थ: । इय भाविऊण उज्झसु इतीदृशमर्थे भावयित्वा सम्यग्विचार्य उज्झसु - परित्यज परिहर । कं, गन्धं परिमलं वासनां भावनां । कथंभूतं गन्धं, अभ्यन्तरं मनसि स्थितं बान्धवादिस्नेहं । हे धीर ! हे योगीश्वर ! ध्येयं प्रति धियं बुद्धिमीरयति प्रेरयतीति धीर इति व्युत्पतेः । देहादिचत्तसङ्गो माणकसाएण कलुसिओ धीर । अतावणेण जादो बाहुवली कित्तियं कालं ॥ ४४ ॥ देहादित्यक्तसङ्गः मानकषायेन कलुषितो धीर ! | आतापनेन जातो बाहुबलिः कियन्तं कालम् ॥ देहादिचत्तसंगो देहः शरीरं, आदिशब्दाद्धस्त्यश्वरथपादातिसमूहः पुत्रकलत्र दिवर्गश्च लभ्यते तस्मात्त्यक्तसंगो निष्परिग्रहः । माणकसाएण कलुसिओ धीर संज्वनमानेनेषत्कषायेण कलुषितो मलिनित: हे धीर ! अत्तावणेण जादो आतापनेन योगेन उद्भकायोत्सर्गेण | बाहुवली कित्तियं कालं श्रीबाहुबलिस्वामी कियंतं कालं वर्षपर्यन्तं कालं कलुषित इति सम्बन्धः । तथा चोक्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy