SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ भावप्राभतं । १५५ शिशुकाले च अज्ञाने अशुचिमध्ये लुठितोसि त्वम् । अशुचिः अशिता बहुशः मुनिवर ! बालत्वप्राप्तेन ॥ सिसुकाले य अयाणे गर्भरूपकाले स्तनन्धयावसरेऽज्ञाने निर्विवेके। असुई मज्झम्मि लोलिओसि तुमं अशुचिमध्ये विष्टामध्ये गूथमध्ये लोलितो लुठितस्त्वं भवान् । असुई असिया बहुसो अशुचिर्विष्टा अमेध्यमशिता भक्षिता बहुशोऽनेकवारान् । मुणिवर बालत्तपत्तेण हे मुनिवर ! यतिवराणां ज्ञानिनां मध्ये श्रेष्ठ ! परमप्रशस्य ! बालत्वप्राप्तेन अव्यक्तबालत्वं गतेन । तथा चोक्तं--- बाल्ये वत्सि न किंचिदप्यपरिपूर्णाङ्कने हितं वाहितं । कामान्धः खलु कामिनीद्रुमघने भ्राम्यन् वने यौवने। मध्ये वृद्धतृषार्जितुं वसु पशुः क्लिनासि कृष्णादिभि र्घार्धक्येऽर्धमृतः क्व जन्मफलिते धर्मों भवनिर्मलः ॥१॥ मंसहिसुक्कसोणियपित्तंतसवत्तकुणिमदुग्गंध । खरिसवसपूयखिब्भिसभरियं चिंतेहि देहउडं ॥ ४२ ॥ मांसास्थिशुक्रश्रोणितपित्तान्त्रस्रवत्कुणिमदुर्गन्धम् । खरिसवसापूय किल्बिषभरितं चिन्तय देहकुटम् ॥ हे जीव ! शुद्धबुद्धैकस्वभाव आत्मन् ! त्वं देहउडं कायकुटं शरीरघटं । चिंतेहि चिन्तय विचारय पर्यालोचयस्व । कथंभूतं देहकुटं, मंसेत्यादि मांसं च पिशितं, अस्थीनि च हड्डानि, शुक्रं च सप्तमो धातुः-बीजं वीर्य चेति यावत् , शोणितं रुधिरं-रक्तं लोहितमिति यावत् , पित्तं च उष्णविकारो मायुरिति, अंत्राणि च पुरीतंति, एतैः स्रवद्गलत कुणिमं शटितमृतकं तद्वदुर्गन्धमसुराभि । पुनः कथंभूतं देहकुटं त्वं चिन्तय, खरिसश्च अपक्कमलरुधिरमिश्रितं द्रव्यं । वसा च वपा भेद इति यावत् शुद्धमांसस्वेद इत्यर्थः। पूयं च विनष्टरुधिरं । पूइ इति पाठेऽपवित्रं । किल्विषं च कश्मलं एतैर्भरितं पूरितं । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy