SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १५४ षट्प्राभृतेतस्मिन् । उयरे वसिओसि चिरं उदरे कुक्षिमध्ये उषितोऽसि निवासं कृतवानसि त्वं चिरं दीर्घकालं, अनन्तगर्भग्रहणापेक्षया चिरमिति विशेषणं । नवदसमासेहिं पत्तेहिं नवभिर्दशभिर्वा मासैः प्राप्तैः परिपूर्णेर्जातैः तन्मध्ये तदुपरि च कियान् कालो लभ्यते प्राप्तशब्देनेति । दियसंगहियमसणं आहारिय मायभुत्तमण्णंते । छदिखरिसाण मज्झे जठरे वसिओसि जणणीए ॥४०॥ द्विजसङ्गस्थितमशनमाहृत्य मातृभुक्तमन्नान्ते । छर्दिखरिसयोर्मध्ये जठरे उषितोसि जनन्याः ॥ हे जीव ! त्वं जनन्या मातुः । जठरे उदरे उषितोऽसि निवासं चकर्थ। कथंभूते जठरे, छदिखरिसाण मज्झे छर्दिश्च वान्तमन्नं, खरिसश्च अपकं दर्दरं मलं रुधिरलिप्तं तेषां छदिखरिसाणं तयोः छर्दिखरिसयोर्मध्ये मध्यविशिष्टे । अथवा जठरे उषितोऽपि कुत्रोषितोऽसि छर्दिखरिसयोमध्ये त्वमुषितोऽसि । किं कृत्वा पूर्व, असणं आहारिय अशनं भोजनं आहृत्य आहारं कृत्वा । कथंभूतमशनं, दियसंगट्टियं द्विजानां दन्तानां अस्थ्यङ्कराणां संगे स्थितं, चर्वणवेलायां मातृमुखे दन्तानां समीपे स्थितं अस्थिभिः स्पृष्टं उच्छिष्टीकृतं । क उषितोऽसि, मायभुत्तमण्णंते यन्मात्रा भुक्तं तस्यान्नस्यान्ते मध्ये उषितोऽसि । अथवा मात्रन्नं भुत्तं-भुक्तं तेत्वया । तथा चोक्तं अन्तर्वान्तं वदनविवरे क्षुत्तषातः प्रतीच्छन् कर्मायत्तः सुचिरमुदरावस्करे वृद्धगृद्धया। निष्पन्दात्मा कृमिसहचरो जन्मनि क्लेशभीतो मन्ये जन्मिन्नपि च मरणात्तन्निमित्ताद्विभषि ॥१॥ सिसुकाले य अयाणे असुईमज्झम्मि लोलिओसि तुमं । असुई असिया बहुसो मुणिवर वालत्तपत्तेण ॥४१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy