________________
भावप्राभृतं ।
१५३
एक्केकंगुलिवाही एकैकांगुली व्याधयो रोगाः । छण्णवदी होंति जाण मणुयाणं पण्णवतिर्भवन्ति हे जीव ! त्वं जानीहि मनुजानां मनुष्याणां शरीरे | अवसेसे य शरीरे अवशेषे च शरीरे एकागुलेरुद्धरितादवशिष्टे शरीरे । रोया भण कित्तिया भणिया रोगा व्याधस्त्वं भण कथय कियन्तो भणिता इति ।
ते रोया विय सयला सहिया ते परवसेण पुव्वभवे । एवं सहसि महाजस किं वा बहुएहिं लविएहिं ॥ ३८ ॥ | ते रोगा अपि च सकलाः संढा त्वया परवशेन पूर्वभवे ! एवं सहसे महायशः किं वा बहुभिः लपितः ॥
ते रोया विय-सयला ते रोगाः सकला अपि सर्वेऽपि । सहिया ते परवसेण पुत्रभवे सोढास्त्वया परवशेन कर्माधीनतया पूर्वभवे पूर्वजन्मान्तरसमूहे | एवं सहसि महाजस एवमुनाप्रकारेण त्वं सहसेऽनुभवसि हे महायशः ! | किंवा बहुएहिं लविएहिं किं वा बहुभिर्लपितै जल्पितैः । पित्तंतमृत्त फेफसकालिज्जयरुहिरखरिसकिमिजाले ॥ उयरे वसिओसि चिरं नवदसमासेहिं पत्तेहिं ।। ३९ ।।
पित्तान्त्रमूत्र फेफस यकृद्रुधिरखरिसक्रमिजाले ।
उदरे वसितोसि चिरं नवदशमासैः पूर्णैः ॥
पित्तं च मायुः | अंत्राणि च परीतंति । मूत्रं च प्रस्रावः । फेफसश्च प्लीहा । कालिज्जय यकृत् "उदर्यो जलाधारो हृदयस्य दक्षिणे यकृत् कालखण्डं क्लोम वामे 'प्लीहा पुष्पसश्चेति" वैद्याः । वरहल इति देश्यां । रुहिर रुधिरं च । खरिस खरिसच, अपक्कविमिश्ररुधिरश्लेष्मा खरिसः कथ्यते । खउरिय इति देश्यात् । किमि कृमयश्च द्वीन्द्रिया जीवास्तेषां जालं समूहो यत्रोदरे तत् पित्तान्त्रमूत्रपुष्पसकालियकरुधिरखरिसयकृमिजालं
१ पुषस. क. । पुष्प. ख. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org