________________
AM
दर्शनप्राभूतं । सम्यक्त्वरत्नभ्रष्टा जानन्तो बहुविधानि शास्त्राणि ।
आराधनाविरहिता भ्रमन्ति तत्रैव तत्रैव ॥ सम्मत्तरयणभट्टा सम्यक्त्वरत्नभ्रष्टाः सम्यक्त्वमेव रत्नं सर्वेभ्यो भावेभ्य उत्तमं वस्तु त्रैलोक्यपस्त्यसमुद्योतकत्वात् तस्माद्भष्टाः परिच्युता दानपूजादिकनिषेधकाः । जाणंता बहुविहाई सत्थाई जानन्तोऽपि बहुविधानि शास्त्राणि तर्कव्याकरणछन्दोलङ्कारसाहित्यसिद्धान्तादीन् ग्रन्थान् जानाना अपि । आराहणाविरहिया जिनवचनमाननलक्षणामाराधनामकुर्वाणा लौंकाः पातकिनः । भमंति तत्थेव तत्थेव तत्रैव तत्रैव नरकादिष्वेव दुर्गतिषु भ्राम्यन्ति न कदाचिदपि मोक्षं लभन्ते इत्यर्थः।
सम्मत्तविरहिया णं सुट्ट वि उग्गं तवं चरंता णं । ण लहंति बोहिलाहं अवि वाससहस्सकोडीहिं ॥५॥
सम्यक्त्वविरहिता णं सुष्ठु अपि उग्रं तपः चरन्तः णं ।
न लभन्ते बोधिलाभं अपि वर्षसहस्रकोटिमिः ॥ सम्मत्तविरहिया णं सम्यक्त्वविरहिताः सम्यक्त्वात् ये विरहिताः पतिताः। णं वाक्यालङ्कारे । सुद वि उग्गं तवं कुणंता णं सुष्ठु अपि अतीवापि उग्रं तपः कुर्वन्तोऽपि मासोपवासादिकं तपोविशेषमाचरन्तोऽपि । णमिति वाक्यालंकारे । न लहंति बोहिलाहं ते पुरुषा बोधिलाभं सम्यग्दर्शनज्ञानचारित्रलक्षणोपलक्षिता या बोधिस्तस्या लाभ न लभन्ते । कियत्कालपर्यन्तं बोधिलाभं न लभन्त इत्याह-अवि वाससहस्सकोडीहिं अपि वर्षसहस्रकोटिभिः वर्षसहस्रकोटिभिरपि अनन्तकालमपि गमयित्वा ते मुक्तिं न गच्छन्तीत्यर्थः । इति ज्ञात्वा दानपूजादिकं व्यवहारधर्म निश्चयधर्मे प्रधानभूतं न वर्जनीयामिति भावार्थः ।
१ न. क.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org