SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ षटमाभतेसम्मत्तणाणदंसणबलवीरियवडमाण जे सव्वे । कलिकलुसपावरहिया वरणाणी होंति अइरेणं ॥ ६ ॥ सम्यक्त्वज्ञानदर्शनबलवीर्यवर्द्धमाना ये सर्वे । कलिकलुषपापरहिता वरज्ञानिनो भवन्ति अचिरेण ॥ सम्मत्तणाणदंसणबलवीरियवड़माण सम्यक्त्वज्ञानदर्शनबलवीर्यवर्द्धमानाः । जे सव्वे ये सर्वे भव्यजीवाः । सम्यक्त्वेन जिनवचनरुचिरूपेण, ज्ञानेन पठनपाठनादिना, दर्शनेन सत्तावलोकनमात्रेण, बलेन निजवीर्यानिगृहनरूपेण, वीर्येणात्मशक्त्या ये पुरुषा वर्धमाना वर्तमाना वा वट्टमाणपाठेन ते पुरुषाः। वरणाणी होंति केवलज्ञानिनो भवन्ति वरशब्देन तीर्थकरत्वं प्राप्नुवन्तीत्यर्थः । कदा, अइरेण अचिरेण स्तोककालेन तृतीये भवे मोक्षं यान्तीत्यर्थः । ते पुरुषाः कथंभूताः, कलिकलुसपावरहिया कलिसु कर्मसु यानि कलुषाणि दुष्टानि पापानि मोहनीयज्ञानावरणीयदर्शनावरणीयान्तरायलक्षणानि दुरितानि तै रहिता क्षयं नीतघातिकर्माण इत्यर्थः। अथवा कलौ पंचमकाले कलुषाः कश्मलिनः शौचधर्मरहिताः वर्णान् लोपयित्वा यत्र तत्र भिक्षाग्राहिणः मांसभक्षिगृहेष्वपि प्रासुकमन्नादिकं गृह्णन्तः कलिकलुषास्ते च ते पापाः पापमूर्तयः श्वेताम्बराभासाः लोकायकापरनामानो लौंका म्लेच्छश्मशानास्पदेष्वपि भोजनादिकं कुर्वाणास्तद्धर्मरहिताः कलिकलुषपापरहिताः । श्रीमूलसंघे परमदिगम्बरा मोक्षं प्राप्नुवन्ति लौंकास्तु नरकादौ पतन्ति देवगुरुशास्त्रपूजादिविलोपकत्वादित्यर्थः । सम्मत्तसलिलपवहो णिच्चं हियए पट्टए जस्स । कम्मं वालुयवरणं बंधुच्चिय णासए तस्स ॥ ७॥ १ अचिरेण. ग. । २ हिययम्मि ग. घ. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy