SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ षट्प्राभूतेदंसणभट्ठा भहा दंसणभट्टस्स णत्थि णिव्वाणं । सिझंति चरियभहा दंसणभट्टा ण सिझंति ॥ ३ ॥ दर्शनभ्रष्टा भ्रष्टाः दर्शनभ्रष्टस्य नास्ति निर्वाणम् । सिद्धयन्ति चरित्रभ्रष्टा दर्शनभ्रष्टा न सिद्धयन्ति ॥ दर्शनभ्रष्टा भ्रष्टाः सम्यग्दर्शनात्पतिताः पतिता उच्यन्ते । दर्शनभ्रष्टस्य नास्ति निर्वाणं-सम्यग्दर्शनात्पतितस्य सर्वकर्मक्षयलक्षणो मोक्षो न भवति किन्तुं सम्यग्दर्शनात्पतिताः नरकादिगतिषु परितो दीर्घकालं पर्यटन्ति । सिज्झंति चरियभहा सिद्धयन्ति आत्मोपलब्धिमनुभवन्ति प्राप्नुवन्ति, के, ते चरियभट्ठा-चारित्रात्पतिता यतिश्रावकलक्षणब्रह्मचर्यप्रत्याख्यानाभ्यां स्खलिताः, सामग्री प्राप्य श्रेणिकमहाराजादिवत् स्तोकेन कालेन मोक्षं प्राप्नुवन्ति । दंसणभहा न सिझंति सम्यग्दर्शनात्पतिता न सिद्धयन्ति मोक्षं न प्राप्नुवन्ति भव्यसेनादिवत् वशिष्ठा दिवच्च संसारे निमजन्ति इति ज्ञात्वा श्रुतकीर्तिश्रेयांसादिप्रमाणपुरुषैरुपप्रवर्तित दानपूजादिसत्कर्म न निषेधनीयं, आस्तिकभावेन सदा स्थातव्यमित्यर्थः। सम्मत्तरयणभट्टा जाणंता बहुविहाई सत्थाई। आराहणाविरहिया भमंति तत्थेव तत्थेव ॥ ४॥ सोऽपि पापः स्वयं क्रोधादरुणीभूतवीक्षणः । उद्यमी पिंडमाहर्तुं प्रस्फुरद्दशनच्छदः ॥ १॥ सोढुं तदक्षमः कश्चिदसुरः शुद्धदृक् तथा। हनिष्यति तमन्यायं शक्तः सन् सहते न हि ॥ २ ॥ सोऽपि रत्नप्रभां गत्वा सागरोपमजीवितः । चिरं चतुर्मुखो दुःखं लोभादनुभविष्यति ॥ ३ ॥ धर्मनिर्मूलविध्वंसं सहन्ते न प्रभावकाः । नास्ति सावद्यलेशेन विना धर्मप्रभावना ॥ ४ ॥ धर्मध्वंसे सतां ध्वंसस्तस्माद्धर्मद्रुहोऽधमान् । निवारयन्ति ये सन्तो रक्षितं तैः सतां जगत् ॥५॥ न. क. । २. ध. ग। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy