________________
दर्शनप्राभृतं । दसणहीणो न वंदिव्वो दर्शनहीनः सम्यक्त्वरहितो न वन्दितव्यो नैव वन्दनीयो न माननीयः । तस्यान्नदानादिकमपि न देयं । उक्तं च
. मिथ्याग्भ्यो ददद्दानं दाता मिथ्यात्ववर्धकः । ___ अथ कोऽसौ दर्शनहीन इति चेत् तीर्थकरपरमदेवप्रतिमां न मानयन्ति न पुष्पादिना पूजयन्ति । किमिति न पूजयन्ति ? मिथ्यादृष्टयः किलैवं वदन्ति तीर्थकरपरमदेवः किं देवान् पूजयति ? तथा वयमपि न पूजयामः । पंचमकाले किल मुनयो न वर्तन्ते तदयुक्तं । उक्तं चभर्तारः कुलपर्वता इव भुवो मोहं विहाय स्वयं
रत्नानां निधयः पयोधय इव व्यावृत्तवित्तस्पृहाः । स्पृष्टाः कैरपि नो नभोविभुतया विश्वस्य विश्रान्तये
सन्त्य द्यापि चिरंतनान्तिकचराः सन्तः कियन्तोऽप्यमी ॥१॥ मिथ्यादृष्टयः किल वदन्ति व्रतैः किं प्रयोजनं, आत्मैव पोषणीयः, तस्य दुःखं न दातव्यं, मयूरपिच्छं किल रुचिरं न भवति, सूत्रपिच्छं रुचिरं, मयूरपिच्छेन आभेटनं छोतिर्भवति तदसत्यं । उक्तं च भगवत्याराधनाग्रन्थे
रजसेदाणमगहणं मद्दवसुकुमालदालहुत्तं च।।
जत्थेदे पंच गुणा तं पडिलिहणं पसंसंति ॥१॥ शासनदेवता न पूजनीयाः, आत्मैव देवो वर्तते, अपरः कोऽपि देवो नास्ति, वीरादनन्तरं किल केवलिनोऽष्ट जाता न तु त्रयः, महापुराणादिकं किल विकथा इत्यादि ये उत्सूत्रं मन्वते ते मिथ्या. दृष्टयश्चार्वाका नास्तिकास्ते। यदि जिनसूत्रमुलंघते तदाऽऽ स्तिकैयुक्तिवचनेन निषेधनीयाः । तथापि यदि कदाग्रहं न मुञ्चन्ति तदा समर्थैरास्तिकैरुपानद्भिःगूथलिप्ताभिर्मुखे ताडनीयाः, तत्र पापं नास्ति ।
१ उक्तं चोत्तरपुराणस्य वर्धमानपुराणे-( अग्रे)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org