________________
षट्याभूते
___ अष्टपदा नान्दी। वोच्छामि वक्ष्यामि कथयिष्यामि । कः कर्ता, अहं श्रीकुन्दकुन्दाचार्यः । कं, कर्मतापन्नं दंसणमग्गं सम्यग्दर्शनस्वरूपं । कथं वक्ष्यामि, जहाकम्मं यथाक्रममनुक्रमेण । केन कृत्वा, समासेण संक्षेपेण । किं कृत्वा, पूर्व वड्ढमाणस्स णमुक्कारं काऊण वर्द्धमानस्य प्रियकारिणीवल्लभश्रीसिद्धार्थमहाराजनन्दनस्यातिमतीर्थकरपरमदेवस्य भरतक्षेत्रस्थविदेहदेशसम्बन्धिश्रीकुण्डपुरपत्तनोत्पन्नस्य सुवर्णवर्णशरीरस्य किंचिदधिकद्वासप्ततिवर्षपरमायुषः सप्तहस्तोन्नतशरीरस्य निर्भयत्वरंजितसंगमनामधेयदेवकृतस्तवनस्य वीरवर्द्धमानमहावीरमहतिमहावीरसन्मतिनामपंचकप्रसिद्धस्य । नमुक्कारं नमोऽस्त्विति वचनेन मनसा कायेन वचसा साष्टाङ्गं प्रणामं । काऊण कृत्वा । कथंभूतस्य वर्धमानस्य, जिणवरवसहस्स जिनवराणां श्रीगौतमादिगणवरदेवादीनां मध्ये वृषभस्य श्रेष्ठस्य । इत्यनेन विशेषणेन प्रथमतीर्थकरश्रीमदादिनाथाढीनामपि सर्वतीर्थकरसमुदायस्यापि नमस्कारः कृतो भवतीति वेदितव्यं ।
दसणमूलो धम्मो उवइहो जिणवरेहिं सिस्साणं । तं सोऊण सकण्णे दंसणहीणोणे वंदिव्वो ॥२॥
दर्शनमूलो धर्मः उपदिष्टो जिनवरैः शिष्याणाम् ।
तं श्रुत्वा स्वकर्णे दर्शनहीनो न वन्दितव्यः ।। दंसणमूलो धम्मो दर्शनं सम्यक्त्वं मूलमधिष्टानमाधारं प्रासादस्य गर्तापूरवत् वृक्षस्य पातालगतजटावत् प्रतिष्ठा यस्य धर्मस्य स दर्शनमूल एवं गुणविशिष्टी धर्मो दयालक्षणः । जिणवरहिं तीर्थकर परमदेवेरपरकेवलिभिश्च । उवइहो उपदिष्टः प्रतिपादितः । कपामुपादेष्टः, सिस्साणं शिष्याणां गणधर चक्रधरवज्रधरादीनां भव्यवरपुण्डरीकाणा । तं सोऊण सकण्णे तं धर्म श्रुत्वाऽऽकर्ण्य ग्वकर्णे नजश्रवण आमशब्दग्रहे । १ सोदूण. ग. ! २ न. क.।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org