________________
AND
DoGION
नमः सिद्धेभ्यः। श्रीमत्कुन्दकुन्दाचार्यविरचितं
षट्प्राभृतम् । श्रीमच्छ्रुतसागरसूरिविरचितया टीकया सहितम् ।
दृग्वृत्तसूत्रबोधाख्यं भावमोक्षसमात्यं ।
षट्प्राभृतमिति प्राहुः कुन्दकुन्दगुरूदितें ॥१॥ अथ श्रीविद्यानन्दिभट्टारकपदाभरणभूतश्रीमलिभूषणभट्टारकाणामादेशादध्येषणावशाबहुशःप्रार्थनावशात्कलिकालसर्वज्ञविरुदावलीविराजमानाः श्रीमद्धर्मोपदेशकुशला निजात्मस्वरूपप्राप्तिं पंचपरमेष्ठिचरणान् प्रार्थयन्तः सर्वजगदुपकारिण उत्तमक्षमाप्रधानतपोरत्नसंभूषितहृदयस्थला भव्यजनजनकतुल्याः श्रीश्रुतसागरसूरयः श्रीकुन्दकुन्दाचार्यविरचितषट्प्राभूतग्रन्थं टीकयन्तः स्वरुचिविरचितसदृष्टयः सम्यग्दर्शनप्राभूतस्यादौ परापरगुरुप्रवाहमङ्गलप्रसिद्धिप्रार्थनपरा नान्दीसूत्रस्य विवरणमाहुः--
काऊण मुकारं जिणवरवसहस्स वडमाणस्स । दसणमग्गं वोच्छामि जहाकम्मं समासेण ॥१॥
कृत्वा नमस्कारं जिनवरवृषभस्य वर्धमानस्य ।
दर्शनमार्ग वक्ष्यामि यथाक्रमं समासेन । १ णमोकारं. ग. । णमोयारं. घ. । २ उसहस्स. ग. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org