________________
१५०
षट्प्राभूतेपरमाणुर्यावन्तं प्रदेशं रुणद्धि तन्मात्रोऽपि निलयो नास्ति । स कः प्रदेशः, जत्थ यत्र प्रदेशे। दव्वसवणो द्रव्यदिगम्बरः मिथ्यादृष्टिस्तपस्वी । ण जाओ न जातो नोत्पन्नः । ण मओ न मृतो न मरणं प्राप्तः। स निलयः कियान् , तियलोयपमाणिओ त्रिवभुवनेनमपितः। सव्वो समस्तोऽपि।
कालमणंतं जीवो जम्मजरामरणपीडिओ दुक्खं । जिणलिंगेण वि पत्तो परंपराभावरहिएण ॥ ३४॥
कालमनन्तं जीवः जन्मजरामरणपीडितः दुःखम् ।
जिनलिङ्गेन अपि प्राप्तः परम्पराभावरहितेन ॥ कालमणंतं जीवो कालं समयमनेहसमिति यावत् , अनन्तमन्तरहितं कर्मतापन्नं जीव आत्मा दुःखं प्राप्त इति क्रियाकारकसम्बन्धः । कालाध्वदेशभावानां कर्मसंज्ञा सिद्धैव वर्तते । कथंभूतो जीवः, जम्मजरामरणपीडिओ जन्मजरामरणपीडितः चम्पितः । जिणलिंगेण वि अहंदूपविशिष्टोऽपि, अपिशब्दादविशिष्टोऽपि । कथंभूतेन जिनलिंगेन, परंपराभावरहिएण परम्परा आचार्यप्रवाहस्तदुपदिष्टं शास्त्रं च परंपरा शब्देन लभ्यते तत्र भावरहितेन प्रतीतिवर्जितेन मिथ्यादृष्टिना जीवनेत्यर्थः । कासौ परंपरा ? अस्यामवसर्पिण्यां तृतीयकालप्रान्ते श्रीवृषभनाथेनार्थशास्त्रमुक्तं, वृषभसेनगणधरेण ग्रन्थः कृतः, तत्परम्परया वीरेण भगवतार्थः प्रकाशितः, गौतमैन गणिना प्रन्थितः, तदनुक्रमेण पंचमकाले प्रमाणभूतैर्निरम्बराचार्यैरारातीयैरुपदिष्टं तच्छास्त्रं प्रमाणीकर्तव्यं विसंघादिभिर्मिथ्यादृष्टिभिः कृतं शास्त्रं न प्रमाणनीयं । अथ के ते आचार्या यैः कृतं शास्त्रं प्रमाणीक्रियते इत्याह
श्रीभद्रबाहुः श्रीचन्द्रो जिनचन्द्रो महामतिः। गृध्रपिच्छगुरुः श्रीमाँल्लोहाचार्यों जितेन्द्रियः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org