SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं । १५१ एलाचार्यः पूज्यपादः सिंहनन्दी महाकविः! वीरसेनो जिनसेनो गुणनन्दी महातपाः ॥ २ ॥ समन्तभद्रः श्रीकुंभः शिवकोटिः शिवंकरः । शिवायनो विष्णुसेनो गुणभद्रो गुणाधिकः ॥३॥ अकलको महाप्राज्ञः सोमदेवो विदांवरः। प्रभाचंद्रो नेमिचन्द्र इत्यादिमुनिसत्तमैः॥४॥ यच्छास्त्रं रचितं नूनं तदेवाऽदेयमन्यकैः । विसंघरचितं नैव प्रमाणं साध्वपि स्फुटं ॥५॥ पडिदेससमयपुग्गलआउगपरिणामणामकालहं। गहिउझियाई बहुसो अणंतभवसायरे जीव ॥ ३५॥ प्रतिदेशसमयपुद्गलायुपरिणामनामकालस्थम् ।। ग्रहीतोज्झितानि बहुशः अनन्तभवसागरे जीव ! ॥ पडिदेस यावन्तः प्रदेशा लोकाकाशस्य वर्तन्ते एकैकं प्रदेशं प्रति शरीराणीति पूर्वोक्तमेव ग्राह्यं गृहीतोज्झितानि । तथा प्रतिसमय-समयं समयं प्रति प्रतिसमयं शरीराणि गृहीतोज्झितानि । प्रतिपुद्गलं प्रतिपरमाणु-परमाणुं परमाणु प्रति प्रतिमरमाणु अनन्तानि शरीराणि गृहीतोज्झितानि । आउगं प्रत्यायु आयु आयु प्रति प्रत्यायु अनन्तानि शरीराणि गृहीतोज्झितानि । परिणाम परिणाम परिणामं प्रति प्रतिपरिणामं क्रोधमानमायालोभमोहरागद्वेषादिपरिणामान् प्रति प्रतिपरिणाम अनन्तानि शरीराणि गृहीतोज्झितानि । णाम नाम नाम प्रति प्रतिनाम प्रतिनामं नपुंसकं चेति वचनाद्वाऽदन्तो निपातः, यावन्ति नामानि गतिजात्यादीनि वर्तन्ते तावन्ति प्रति अनन्तानि शरीराणि गृहीतोज्झितानि । कालहं प्रतिकालस्थं उत्सर्पिण्यवसर्पिणीकालस्थं यथा भवत्येवं तत्समयांश्च प्रति प्रतिकालस्थं अनन्तानि १ जीवो. घ. । जीवा ग. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy