SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं । समरणं, विप्राणसमरणमुच्यते-गृध्रपृष्टमिति संज्ञिते कृते प्रवर्तते । दुर्भिक्षे कान्तारे दुरुत्तरे पूर्वशत्रुभये दुष्टनृपभये स्तेनभये तिर्यगुपसर्गे एकाकिनः सोढुमशक्ये ब्रह्मव्रतनाशादिचारित्रदूषणे च जाते संविग्नः पापभीरुः कर्मणामुदयमुपस्थितं ज्ञात्वा सोढुमशक्तः तन्निस्तरणस्यासत्युपाये सावधकरणभीरुः विराधनमरणभीरुश्च एतस्मिन् करणे जाते कालेऽमुमिन् किं भवेत्कुशलमिति गणयता यधुपसर्गत्रासितोऽहं संयमाद्मश्यामि तत: संयमभ्रष्टो दर्शनादपि न वेदनामसंक्लिष्टः सोढुं प्रव्रज्यामुत्सहे ततो रत्नत्रयाराधनाच्युतिममेति निश्चितमतिनिर्मायः चरणदर्शनविशुद्धः धृतिमान् ज्ञानसहायोऽनिदानोऽर्हदन्तिके आलोचनामासाद्य कृतशुद्धिलेश्यप्राणापाननिरोधं करोति यत्तद्विप्पाणसमरणमुच्यते। शस्त्रग्रहणेन यद्भवति तद्गृध्रपृष्ठमित्युच्यते मरणविकल्पसंभवप्रदर्शन मिदं सर्वत्र कर्तव्यतयोपदिश्यते । भक्तप्रत्याख्यानं, प्रायोपगमनमरणं, इंगिनीमरणं, केवलमरणं चेति । इत्येतान्येवोत्तमानि पूर्वपुरुषैः प्रवर्तितानि सप्तदशसु मध्ये त्रीण्युत्तमानि सुमरणानि । प्रायोपगमनं दर्भासने स्थितः स्वयमुपसर्ग न निवारयति, चेत्कोपि निवारयति तदा निवारयितुं ददाति । इंगिनीमरणे निवारयितुमपि न ददाति । केवलिमरणं तीर्थकरगणधरानगारकेवलिमरणं ज्ञातव्यं । एतन्मरणत्रयं सुमरणं हे जीव ! त्वं भावय । सो णत्थि दव्वसवणो परमाणुपमाणमेत्तओ णिलओ। जत्थ ण जाओ ण मओ तियलोयपमाणिओ सव्वो ॥३३॥ स नास्ति द्रव्यश्रमणः परमाणुप्रमाणमात्रो निलयः। __यत्र न जातः न मृतः त्रिलोकप्रमाणकः सर्वः ॥ सो णत्थि स नास्ति न विद्यते । णिलओ गृहं स्थानं । कथंभूतो निलयः, परमाणुपमाणमेत्तओ परमाणुप्रमाणमात्रः अविभागी १ नि. टी. । २ यो. टी. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy