________________
१४८
षट्प्राभृतेनबालमरणं द्विविधं इच्छाप्रवृत्तमनिच्छाप्रवृत्तं चेति । तत्रेच्छाप्रवृत्तमग्निना धूमेन शस्त्रेण विषेणोदकेन मरुत्प्रपातेनोच्छासरोधेन शीतपातेनोष्णपातेन रज्वा क्षुधा तृषा जिव्होत्पाटनेन विरुद्धाहारसेवनेन च मरणमिच्छामरणं । कालेऽकाले वाऽध्यवसानादिना विना जिजीविषोर्मरणमनिच्छाप्रवृत्तं । पंडितमरणमुच्यते-पंडितश्चतुर्धा व्यवहारपंडितः सम्यक्त्वपंडितो ज्ञानपंडितश्चारित्रपंडितश्चेति । लोकदसमयगतव्यवहारनिपुणो व्यवहारपंडितः, अथवानेकशास्त्रज्ञः शुश्रूषादिबुद्धिगुणसमन्वितो व्यवहारपंडितः । त्रिविधान्यतमसम्यक्त्वः दर्शनपण्डितः । पंचविधज्ञानपरिणतो ज्ञानपंडितः । पंचविधचारित्रान्यतमचारित्रपरिणतश्चारित्रपंडितः । नरके भवनेषु विमानेषु ज्योतिष्कंषु वानव्यन्तरेषु द्वीपसमुद्रेषु च ज्ञानपंडितमरणं । मनःपर्ययमरणं मनुष्यलोक एव मरणं । आसन्नमरणमुच्यते-निर्वाणमार्गप्रस्थितसंयतसार्थात् प्रच्युतः आसन्न उच्यते, तदुपलक्षणं पार्श्वस्थस्वच्छन्दकुशीलसंसकानां । ऋद्धिप्रिया रसेष्वासक्ता दुःखभीरवः सदा दुःखकातराः कषायपरिणताः संज्ञावशगाः पापश्रुत्याभ्यासकारिणः त्रयोदशक्रियास्वलसाः सदा संक्लिष्टचेतसः भक्ते उपकरणे च प्रतिबद्धा निमित्तमंत्रौषध्योगोपजीविनः गृहस्थवैयावृत्यकरा गुणहीना गुप्तिसमितिध्वनुद्यता मन्दसंवेगा दशधर्माअकृतबुद्धयः शबलचारित्रा आसन्ना उच्यन्ते । ते यद्यन्ते आत्मशुद्धिं कृत्वानियन्ते तदा प्रशस्तमेव मरणं । बालपंडितमरणं श्र वकस्य । सशल्यमरणं सुगमं । पलायमरणमुच्यते-विनयवैयावृत्यादावकृतादरः प्रशस्तक्रियोद्वहनालसः त्रयोदशचारित्रेषु वीर्यनिगूहनपरो धचिन्तायां निद्राघुर्णित इव ध्याननमस्कारादेः पलायत पलायमरणं । इन्द्रियवेदनाकषायनोकषायातमाणं वशार्तमरणं । प्रसिद्धऽनतुज्ञाते च मरणे विप्पाण
१ मरु. क. पर्वत।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org