SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ भावप्राभतं । १४७ अन्या" इति प्राकृतव्याकरणसूत्रेण सप्तम्यर्थे द्वितीया । मरिओसि मृतोऽसि मरणं प्राप्तोऽसि । भावहि सुमरणमरणं भावय सुमरणमरणं पंडितपंडितमरणं । कथंभूतं सुमरणमरणं, जरमरणविणासणं जरामरणविनाशनं परममोक्षदायकं । हे जीव है चेतनस्वभाव ! आत्मन्निति । समुद्रादिकलोलवत्प्रतिसमयमायुस्त्रुट्यति तदावीचिकामरणं स्थितिप्रदेशवीचिकाभेदात्तद्विविधमप्येकविधं । भवान्तरप्राप्तिरनन्तरोपसृष्टपूर्वभवविगमनं तद्भवमरणमुच्यते । तत् त्त्वनन्तशः प्राप्त जीवेनेति ज्ञातव्यं, तेन तद्भवमरणं न दुलर्भ । अवधिमरणं नाम कथ्यते-यो यादृशं मरणं साम्प्रतमुपैति तादृशमेव यदि मरणं भविष्यति तदवधिमरणं, तद् द्विविध देशावधिमरणं सर्वावधिमरणं चेति । तत्र सर्वावधिमरणं नाम यदायुर्यथांभूतमुदेति साम्प्रतं प्रकृतिस्थित्यनुभागप्रदेशैस्तथाभूतमेवायुः प्रकृत्यादिविशिष्टं पुनर्बध्नात्युदेष्यति च यदि सर्वावधिमरणं । यत्साम्प्रतमुदेत्यायुर्यथाभूतं भूतमेव बध्नाति देशतो यदि तद्देशावधिमरणं । एतदुक्तं भवति-देशतः सर्वतो वा सादृश्येनावधीकृतेन विशेषितं मरणमवधिमरणमिति । साम्प्रतेन मरणेनासादृश्यभावि यदि मरणमाद्यन्तमरणमुच्यते । आदिशब्देन साम्प्रतं प्राथमिकं मरणमुच्यते, तस्यान्तो विनाशभावो यस्मिन्नुत्तरमरणे तदेतदाद्यन्तमरणमुच्यते । प्रकृतिस्थित्यनुभवप्रदेशैर्यथाभूतैः साम्प्रतमुपैति मृति तथाभूतां यदि सर्वतो देशतो वा नोपैति तदाद्यन्तमरणं । बालमरणमुच्यते-स च बालः पंचप्रकारोऽव्यक्तबालो व्यवहारबालो ज्ञानबालो दर्शनवालश्चारित्रबालः । धर्मार्थकामकार्याणि न वेत्ति न तदाचरणसमर्थशरीरोऽव्यक्तबालः। लोकवेदसमयव्यवहारान् न वेत्ति शिशुर्वा व्यवहारबालः । मिथ्यादृष्टयो दर्शनबालाः । वस्तुयाथात्म्यग्राहिज्ञानहीना ज्ञानबालाः । अचारित्राश्चारित्रबालाः । दर्श १ भाव. क.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy