________________
१४६
~~~~~~~
~~~
~
~~~~~
~~
षट्प्राभृतेसंसारे भवे । इय जिणवरेहि भणियं इत्येतद्वचनं जिनवरैस्तीर्थकरपरमदेवैर्भणितं प्रतिपादितं । तं रयणत्तं समायरह तत्तस्मात्कारणात् तजगत्प्रसिद्धं वा तत् त्वं वो रत्नत्रयं वो समाचर सम्यगाद्रियस्व वा।
तं रयणत्तयं केरिसं हवदि। तं जहा । तद्रत्नत्रयं कीदृशं भवति ? तद्यथा-तदेवनिरूपयति--
अप्पा अप्पम्मि रओ सम्माइट्टी हवेइ फुडु जीवो। जाणइ तं सण्णाणं चरदिह चारित्तमग्गुत्तिं ॥ ३१ ॥
आत्मा आत्मनि रतः सम्यग्दृष्टिः भवति स्फुटं जीवः । __ जानाति तत् संज्ञानं चरतीह चारित्रमार्ग इति ॥ अप्पा अप्पम्मि रओ आत्मा आत्मनि रत आत्मनः श्रद्धानपरः । सम्माइही हवेइ फुडु जीवो सम्यग्दृष्टिर्भवति स्फुटं निश्चयनयेन, व्यवहारनयेन तु तत्वार्थश्रद्धानं सम्यग्दर्शनं भवति, जीव आत्मा सम्यग्दृष्टिरिति ज्ञातव्यः । जाणइ तं सण्णाणं जानाति तं. आत्मानं तत्सद्ज्ञानं सम्यग्ज्ञानं भवति, व्यवहारेण तु सप्ततत्वानि जानाति तत्सम्यरक्षानं भवति । चरदिह चारित्तमग्गुत्ति तमात्मानं जीवो यच्चरति तन्मयो भवति आत्मन्येकलोलीभावो भवति, इहास्मिन् संसारे, चारित्रमार्ग इति, व्यवहारेण तु पापक्रियाविरमणं चरणं भवति ।
अण्णे कुमरणमरणं अणेयजम्मतराई मरिओसि । भावहि सुमरणमरणं जरमरणविणासणं जीव ॥ ३२ ॥
अन्यस्मिन् कुमरणमरणं अनेकजन्मान्तरेषु मृतोऽसि ।
भावय सुमरणमरणं जन्ममरणविनाशनं जीव ! ॥ अण्णे कुमरणमरणं अन्यस्मिन् भवसमूहे कुमरणमरणं-कुत्सितमरणमरणं यथा भवत्येवं । तथा अनेकजन्मान्तराण्यनन्तभवान्तरेषु । “अन्यार्थे
१-२ वाद्वयं नास्ति. ख. पुस्तके । ३ मग्गोत्ति मूलगाथापाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org