________________
भावप्राभृतं ।
छत्तीसं तिणि सया छावद्विसहस्सवारमरणाणि । अंतोमुहुत्तमज्झे पत्तोसि निगोयवासम्म ॥ २८ ॥ षट्शतं त्रीणि शतानि षट्षष्टिसहस्रवारमरणानि । अन्तर्मुहूर्तमध्ये प्राप्तोऽसि निकोतवासे ॥
१४५
छत्तीसं तिणि सया त्रिंशदधिकत्रिशतानि । छावडिस्सहसबारमरणाणि षट्षष्टिसहस्रवारान् मरणानि ६६३३६ | अंतोमुहुत्तमज्झे अन्तर्मुहूर्तमध्ये | पत्तोसि निगोयेवासम्म प्राप्तोऽसि निकांतवासे । वियलिंदिए असीदी सट्ठी चालीसमेव जाणेह | पंचिदिय चउवीसं खुद्दभवतोमुहुत्तस्स ॥ २९ ॥ विकलेन्द्रियाणामशीतिं षष्ठि चत्वारिंशदेव जानीत | पञ्चेन्द्रियाणां चतुर्विंशतिं क्षुद्रभवान् अन्तर्मुहूर्तस्य ॥ वियलिंदिए असीदी विकलेन्द्रियाणां द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजीवेषु अनुक्रमेण मरणसंख्यामन्तर्मुहूर्तस्य करोति । तथाहि । द्वीन्द्रिया जीवा अन्तर्मुहूर्तेन अशीतिवारान् म्रियन्ते । त्रीन्द्रिया जीवा अन्तर्मुहूर्तेन षष्ठिवारान् म्रियन्ते । चतुरिन्द्रिया जीवा अन्तर्मुहूर्तेन चत्वारिंशतं वारान् त्रियन्ते । पंचिदिय चउवीसं पंचेन्द्रिया जीवा अन्तहूर्तेन चतुर्विंशतिवारान् म्रियन्ते । खुद्दभवतोमुहुत्तस्स क्षुद्रभवा अन्तर्मुहूर्तस्य क्रमेण ज्ञातव्याः रयणते सुअल एवं भमिओसि दीहसंसारे ।
इय जिणवरेहिं भणियं तं रयणत्तं समायरह ॥ ३० ॥
रत्नत्रये स्वलब्धे एवं भ्रमितोऽसि दीघसंसारे । इति जिनवरैर्भणितं तत् रत्नत्रयं समाचर ॥
रयणत्ते सुअलद्धे रत्नत्रये सुष्ठु अलब्धे सति । एवं भमिओसि दीहसंसारे एवममुनाप्रकारेण भ्रमितोऽसि पर्यटितवान् दार्घसंमारेऽनादौ
१ द. टी. ।
घट. १० Jain Education International
For Private & Personal Use Only
www.jainelibrary.org