________________
१४४
षट्प्राभते
हिमज्वलनसलिलगुरुतरपर्वततरुरोहणपतनभझैः ।
रसविद्यायोगधारणानयप्रसंगैः विविधैः ॥ हिम केषांचिजन्तूनां मानवानां च शीतेनापमृत्युर्भवति । जलण केषांचिज्ज्वलनेनाग्निनापमृत्युर्भवति । सलिल केषांचित्सलिलेन समुद्रा. दिजलेनापमृत्युर्भवति । गुरुयरपव्वयतरुरुहणपडणभंगेहिं गुरुतरा अत्युन्नतशिखरास्ते च ते पर्वतास्तुंगीगिर्यादयः, तथा तरवो वृक्षा गुरुतरपर्वततरवस्तेषां रोहणेन पतनेन च कृत्वा ये भंगा: शरीरामर्दनानि ते तथा तैः हिमज्वलनसलिलगुरुतरतपर्वतरुरोहणपतनभंगैः । रसविज्जजोयधारणअणयपसंगेहि रसस्य विषस्य या विद्या विज्ञानं तस्या योगोऽनेकौषध. मेलनं तस्य धारणं सेवनमास्वादनं अनयप्रसंगश्चान्यायकरणं ते रसविद्यायोगधारणानयप्रसंगास्तै रसविद्यायोगधारणानयप्रसंगैः। विविहेहिं विविधैर्नानाप्रकारैः । तथा चोक्तं लक्ष्मीधरेण भगवता---
अन्नाए दालिदियहं अरे जिय दुहु आवग्गु । लक्कडियए विणु खोडयहं मग्गु सचिक्खलु दुग्गु ॥ १ ॥ इय तिरियमणुयजम्मे सुइरं उववज्जिऊण, बहुवारं । अवमिच्चुमहादुक्खं तिव्वं पत्तोसि तं मित्त ॥ २७ ॥
इति तिर्यमनुष्यजन्मनि सुचिरं उपपद्य बहुवारम् ।
अपमृत्युमहादुःखं तीव्र प्राप्तोऽसि त्वं मित्र ! ॥ इय तिरियमणुयजम्मे इति पूर्वोक्तप्रकारेण तिर्यमनुष्यजन्मनि। सुइरं सुचिरं सुष्ठु दीर्घकालं । उववज्जिऊण बहुवा उपपद्य उत्पद्य जन्म गृहीत्वा बहु बारमनेकवारं । अवमिच्चुमहादुकावं अपमृत्युमहादुःखं । तिव्वं पत्तोसि तीव्र दुःखमसहनीयअसा प्राप्तोऽसि । तं मित्त त्वं भवान् हे मित्र ! हे बन्धो ! हे सुहृत् !।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org