SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १४० .....% A NA षट्प्राभूतेदीर्घकालमनन्तकालमनादिकालं । अणेयजणणीण मुणिपवर गर्भवसतिषु अनेका अनन्ता जनन्यो जाताः, हे मुनिप्रवर ! हे मुनीनामुत्तम !। पीओसि थणच्छीरं अणंतजम्मतराई जणणीणं । अण्णण्णाण महाजस सायरसलिलादु अहिययरं ॥१८॥ पीतोऽसि स्तनक्षीरं अनन्तजन्मान्तराणि जननीनाम् । अन्यासामन्यासां महायशः ! सागरसलिलादधिकतरम् ॥ पीओसि थणच्छीरं पीतोऽसि पीतवान् धयितवानसि स्तनक्षीरं अपवित्रं वक्षोरुहक्षीरं स्तनदुग्धं । अणंतजम्मंतराइं अनन्तजन्मान्तराणि अनन्तभवान्तरेषु । जणणीणं जननीनां अनन्तमातृणां । अण्णण्णाण अन्यासामन्यासां । महाजस महत् त्रैलोक्यव्यापकं यशो यस्य भवति महायशास्तस्य सम्बोधनं क्रियते हे महायशः । सायरसलिलादु अहिययरं सागरसलिलादप्यधिकतरं अतिशयेनाधिकतरमनन्तसागरजलसमानं । तुह मरणे दुक्खेणं अण्णण्णाण अणेयजणणीणं । रुण्णाण णयणणीरं सायरसलिलादु अहिययरं ॥ १९ ॥ तव मरणे दुःखेन अन्यासामन्यासां अनेकजननीनाम् । रुदितानां नयननीरं सागरसलिलात् अधिकतरम् ॥ तुह मरणे दुक्खेणं तव मरणे सति दुःखेन कृत्वा “ङसा दि दे इ ए तु ते उय उन्म तुब्भ तम्ह तुमाइ तुमो तुमे तुम तुव तुहं तइ तुहाः" इति प्राकृतव्याकरणसूत्रेण तवशब्दस्य तुह इत्यादेशः । अण्णण्णाणं अन्यासामन्यासां मानुषीसिंहीव्यात्रीमार्जारीमृगीगोगर्वरीबडवाकरेणुप्रभतीनां । अणेयजणणीणं अनेकजननीनां प्रत्येकमनन्तमातृणां । रुण्णाण सदितानां । णयणणीरं लोचनबाष्पजलं । सायरसलिलादु अहिययरं सागरसलिलादधिकतरं प्रत्येकं समुद्रतोयादप्यधिकतरमनन्तसागरसलिलपरिमाणं भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy