SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं। १३९ रपि म्रियते अल्पायुषोऽप्यायुर्न त्रुट्यति इत्यादि माहात्म्यं बहुविधं दृष्ट्वा । होऊण हीणदेवो हीनदेवो भूत्वा । पत्तो बहुमाणसं दुःखं प्राप्तोऽसि बहुतरं प्रचुर मनसि भवं मानसं दुःखं हे जीव ! त्वमिति कारणात जिनभक्तिं कुर्विति भावार्थः । चउविहविकहासत्तो मयमत्तो असुहभावपयडत्थो। होऊण कुदेवत्तं पत्तोसि अणेयवाराओ॥ १६ ॥ चतुर्विधविकथासक्तः मदमत्तः अशुभभावप्रकटार्थः । भूत्वा कुदेवत्वं प्राप्तोऽसि अनेकवारान् ॥ चउविहविर्कहासत्तो चतुर्विधविकथासक्तः आहारकथा-स्त्रीकथाराजकथा-चौरकथालक्षणासु विकथासु चतुर्विधास्वासक्तः। मयमत्तो अष्टमदैमत्तो गर्वितः । असुहभावपयडत्थो अशुभभावः पापपरिणामः प्रकटः स्फुटीभूतोऽर्थः प्रयोजनं यस्य स अशुभावप्रकटार्थः । होऊण कुदेवत्तं अशुभभावप्रकटार्थो भूत्वा कुदेवत्तं-कुत्सितदेवत्वं । पत्तोसि प्राप्तोऽसि । हे जीव ! असुरादिकुदेवगतीरनेकवारान् प्राप्तोऽसि । असुहीवीहत्थेहि य कलिमलबहुलाहि गब्भवसहीहि । वसिओसि चिरं कालं अणेयजणणीण मुणिपवर ॥१७॥ अशुचिबीभत्सासु कलिमलबहुलासु गर्भवसतिषु । उषितोसि चिरं कालं अनेकजननीनां मुनिप्रवर ! ॥ असुहीवीहत्थेहि य अशुचिषु अपवित्रासु बीभत्सासु, च विरूपकामु । कलिमलबहुलाहि पापबहुलासु । गम्भवसहीहि गर्भगृहेषु उदरवसतिषु । वसिओसि चिरं कालं उषितोऽसि स्थितोऽसि चिरं १ ई. ख. ग. घ. पुस्तके । २ पवरा. ग. घ. । घ. पुस्तकेऽस्यार्थः प्रचुरत्वमिति । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy