________________
भावप्राभृतं ।
१४१
भवसायरे अणंते छिण्णुज्झियकेसणहरणालही । पुंजेइ जइ को विजए हवदि य गिरिसमधिया रासी॥२०॥
भवसागरे अनन्ते छिन्नोज्झितकेशनखरनालास्थीनि ।
पुञ्जयति यदि कश्चित् देवो भवति च गिरिसमधिका राशिः ।। भवसायरे अणंते भावसागरेऽनन्ते संसारसमुद्रेऽन्तरहिते। छिण्णुज्झियकेसणहरणालही छिन्नानि उज्झितानि मुक्तानि क्षुरेण नखलुना छुरिकया पूर्व छिन्नानि पश्चादुज्झितानि केशनखरनालास्थीनि । पुंजेइ जइ को वि जए पुंजमति राशीकरोति यदि चेत् कोऽपि शक्रसन्तानागतः कश्चिद्देवः । हवदि य गिरिसमधिया रासी भवति च गिरेभैरोरपि समधिका राशि: केशादीनां प्रत्येकमनन्तमेरुसमा राशयो भवन्तीति भावार्थः ।
जलथलसिहिपवणंबरगिरिसरिदरिकुरुवणाई सव्वत्तो। वसिओसि चिरं कालं तिहुवणमज्झे अणप्पवसो ॥२१॥
जलस्थलशिखिपवनांबरगिरिसरिदरीतरुवनादिषु सर्वत्र । __ उषितोसि चिरं कालं त्रिभुवनमध्येऽनात्मवशः ॥ हे जीव ! है चेतनानाथ ! त्वं जले उदके उषितोऽसि निवास चकर्थ । थल थले भूम्यां । सिहि शिखिनि हुताशने । पवण पवने झंझामारुतादौ । अंबर अम्बरे विहायसि । गिरि पर्वते । सरि सरिति नद्यां । दरि दयाँ गुहायां । कुरुवणाई देवकरूतरकुरूत्तमभोगभूमिकल्पवृक्षवने । आदिशब्दाद्भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतादयोलभ्यन्ते । सव्वत्तो किं बहुना सर्वतः सर्वत्र । वसिओसि चिरं कालं उषितोऽसि चिरं दीर्घमनन्तं कालमनन्तोत्सर्पिण्यवसर्पिणीकालसमयपर्यन्तं । तिहुवणमज्झे अणप्पवसो त्रिभुवनमध्येऽनात्मवशः । नि
१ ना. टी.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org