________________
१३६
षट्प्राभूतेददाति स तु दुरितक्रमः कथं मया नानुष्ठीयते इत्यादि मानसं तीव्र दुःखं हे जीव ! त्वं संपत्तोसि सम्यक्प्रकारेण प्राप्तोऽसि अनुभूतवानसि । महाजस महत् त्रैलोक्यव्यापनशीलं यशः पुण्यगुणानुकीर्तनं यस्य स भवति महायशाः तस्य सम्बोधनं क्रियते कुन्दकुन्दाचार्येण हे महायशः ! । दुक्खं सुह भावणारहिओ ईदृग्विधं दुःखं कस्मात्प्राप्तमित्याह-सुहभावणारहिओ-शुभस्य विशिष्टपुण्यस्य भावनारहितः । कासौ शुभभावना ? दर्शनविशुद्धयादयः षोडशभावनाः शुभास्तीर्थकरनामकर्मोपार्जनहेतुत्वात् । अतिशयेन शुभाऽत्र जिनसम्यक्त्वभावना, मिथ्यात्वभावना त्वतीव पापीयसी। तथा चोक्तं समन्तभद्रेण महाकविना
न सम्यक्त्वसमं किंचित्रैकाल्ये त्रिजगत्यपि। श्रेयोऽश्रेयश्च मिथ्यात्वसमं नान्यत्तनूभृताम् ॥१॥ सम्यक्त्वभावनया एकयापि तीर्थकरनामकर्म बद्भयते पंचदशापरभावना विनापि । तस्य सम्यक्त्वस्य शुद्धता चर्मजलघृततैलहिंगुवर्जनेन भवति । अन्येनाप्युपासकाध्ययनादिशास्त्रेणोक्तेनाचारेण विस्तरेण ज्ञातव्या। तथा चोक्तं शिवकोटिनाचार्येण--
चर्मपात्रगतं तोयं घृतं तैलं प्रवर्जयेत् । नवनीतप्रसूनादि शाकं नाद्यात्कदाचन ॥१॥ कंदप्पमाइयाओ पंच वि असुहादिभावणाई य । भाऊण दव्वलिंगी पहीणदेवो दिवे जाओ॥ १३ ॥
कान्दपीत्यादयः पंच अपि अशुभादिभावनाश्च ।
भावयित्वा द्रव्यलिङ्गी प्रहीणदेवः दिवि जातः ॥ कंदप्पमाइयाओ कान्दपी इत्येवमादिकाः । पंच वि असुहादिभावणाई य पंचापि अशुभशब्दादयो भावनाश्च कान्दीप्रभूतयः
१ कंदप्पमाहियाओ इति. मूलगाथापाठः क. पुस्तके, न तु ख. पुस्तके । कंदप्पमादियाओ इति. ग. घ. पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org