SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं । १३५ आगंतुक आगन्तुकं दुःखं विद्युत्पातादिकं । मानसिकदुःखं स्त्रीकटाक्षादिताडने सति तदप्राप्तौ भवति । तथा चोक्तंसंसारे नरकादिषु स्मृतिपथेऽप्युद्वेगकारण्यलं दुःखानि प्रतिसेवितानि भवता तान्येवमेवासताम् । तत्तावत्स्मरसि स्मरस्मितशितापाङ्गैरनङ्गायुधै वामानां हिमदग्धमुग्धतरुवद्यत्प्राप्तवान्निर्धनः ॥१॥ सहजं व्याधिवेदनोत्पन्नं दुःखं । सारीरियं छेदनभेदनादिकं दुःखं । चकार उक्तसमुच्चयार्थस्तेन खलजनोक्तमिथ्यावचनश्रवणे यदुःखं भवति तत् केनापि सोढुं न शक्यते । तदुक्तं रुद्रटेन महाकविना शल्यमपि स्खलदन्तः सोढुं शक्येत हालाहलदिग्धं । धीरैर्न पुनरकारणकुपितखलालीकदुर्वचनं ॥ १ ॥. चत्तारि एतानि चत्वारि । दुःखाई दुःखानि । मणुयजम्मे मनुज. जन्मनि मनुष्यभवे । पत्तोसि प्राप्तोऽसि हे जीव ! त्वं प्राप्तवानसि भवसि । अणंतयं कालं अनन्तकं कुत्सितमनन्तं कालं समयमिति । सुरनिलएसु सुरच्छरविओयकाले य माणसं तिव्वं । संपत्तोसि महाजस दुःखं सुहभावणारहिओ ॥ १२ ॥ सुरनिलयेषु सुराप्सरावियोगकाले च मानसं तीव्रम् । ___संप्राप्तोऽसि महायशः ! दुःख शुभभावनारहितः ॥ सुरनिलएसु स्वर्गेषु । सुरच्छरविओयकाले देवीवियोगावसरे य चकारात्त्वं देवी जाता तदा देववियोगकाले । माणसं तिव्वं इन्द्रविभूतिं दृष्ट्वा मानसं मनसि भवं दुःखं त्वं प्राप्तः, तदुःखं तीव्रमत्युत्कृष्टं, हा ! मया मनुष्यभवे प्राप्तेऽपि निर्मलं चारित्रं न पालितं अनेन तु निरतिचारं चारित्रं प्रतिपालितं तेनायं मम किल्विषादेरादेशं १ हालहल. ख.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy