________________
षट्प्राभृतेसातानि कष्टानि भुक्तानि निरन्तरमविच्छिन्नं । सहिय हे स्वहित ! हे आत्महित ! किं त्वया आत्मनो हितं कृतमित्याक्षेपः !
खणणुतावणवालणवेयणविच्छेयणाणिरोहं च ।। पत्तोसि भावरहिओ तिरियगईए चिरं कालं ॥१०॥
खननोत्तापनज्वालनव्यजनविच्छेदनानिरोधं च ।
प्राप्तोऽसि भावरहितः तिर्यग्गतौ चिरं कालम् ॥ खणण पृथिवीकायस्त्वं यदा जातस्तदा खननं कुद्दालादिनाऽवदारणदुःखं त्वया सोढं । उत्तावण अप्कायस्त्वं यदाभूतस्तदाऽग्न्युपर्युत्तापनदुःखं त्वया क्षमितं । वालणे अग्निकायिको जीवो यदा त्वं जातस्तदा ज्वालनदुःखं त्वयानुभूतं । वेयण वायुकायिको जीवो यदा त्वं जातस्तदा व्यजनादिनावीजनदुःखं त्वया तितिक्षितं । विच्छेयणा हे जीव ! वनस्पतिकायिको जीवो यदा त्वं उत्पन्नस्तदा विच्छेदना कुठारादिना कर्षणं दुःखं त्वया मृषितं । णिरोहं च शंखशुक्तिवृश्चिकगोमिभ्रमरमक्षिकावलीवर्दमहिषादिकस्त्वं समुत्पन्नस्तदा निरोधादि दुःखं त्वया भुक्तं । इति स्थावरत्रसदुःखानि अनुक्रमेण सूचितानि भवन्तीति ज्ञातव्यं । पत्तोसि भावरहिओ प्राप्तोऽसि भावरहितो जिनभक्तिभ्रष्ट आत्मभावनादूरीकृतश्च । तिरियगईए चिरं कालं तिर्यग्गतौ दीर्घ कालं असंख्यातवर्षपर्यन्त वनस्पतिकायापेक्षयानन्तकालं चेत्यागमानुसारेण ज्ञातव्यम् ।
आगंतुक माणसियं सहज सारीरियं च चत्तारि। दुक्खाई मणुयजम्मे पत्तोसि अगंतयं कालं ॥ ११ ॥
आगन्तुकं मानसिकं सहजं शारीरिकं च चत्वारि । दुःखानि मनुजजन्मनि प्राप्तोसि अनन्तकं कालम् ॥
१ तिरय इति मूलगाथापाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org