________________
भावप्राभृतं ।
१३७ पंचाशुभभावना इत्यर्थ । भाऊण दव्वलिंगी तास्त्वं भावयित्वा द्रव्यलिंगः सन् । पहीणदेवो दिवे जाओ प्रहीणदेवो-हीनदेवः प्रकर्षण नीचदेवः किल्विषादिको देवः दिवे-स्वर्गे हे जीव ! त्वं जात उत्पन्नः । कास्ता: पंचाशुभभावना इत्याह-कान्दी, कैल्विषी, आसुरी, सांमोही, आभियोगिकी चेति एतासां नामानुसारेणार्थश्चिन्तनीयः । उक्तं च शुभचन्द्रेण योगिना---
कान्दी कैल्विषी चैव भावना चाभियोगिकी। दानवी चापि साम्मोही त्याज्या पंचतयी च सा ॥१॥ पासत्थभावणाओ अणाइकालं अणेयवाराओ। भाऊण दुहं पत्तो कुभावणाभावबीएहिं ॥ १४ ॥
पावस्थभावना अनादिकालं अनेकवारान् ।
भावयित्वा दुःखं प्राप्तः कुभावनाभावबीजैः ॥ पासत्थभावणाओ पार्श्वस्थभावनाः । अणाइकालं अणेयवाराओ अनादिकालमादिरहितकालपर्यन्तं, अनेकवाराननन्तवारान्। भाऊण दुई पत्तो भावयित्वा दुःखं हे जीव ! त्वं प्राप्तः प्राप्तवान् । कुभावणाभावबीएहि कुभावनानां भावाः परिणामास्त एव बीजान्यंकुरोत्पत्तिहेतवस्तैः कुभावनाभावबीजैः । कास्ता: पावस्थपंचभावनाः ? यो वसतिषु प्रतिबद्ध उपकरणोपजीवी श्रवणानां पार्थे तिष्ठति स पार्श्वस्थः । क्रोधादिकषायकलुषितात्मा व्रतगुणशीलैः परिहीनः संघस्याविनयकारी कुशील उच्यते । वैद्यकमंत्रज्योतिषोपजीवी राजादिसेवकः संसक्तः कथ्यते । जिनवचनानभिज्ञो मुक्तचारित्रभारो ज्ञानचरणभ्रष्टः करणालसोऽवसन्न आभाष्यते । त्यक्तगुरुकुल एकाकित्वेन स्वच्छन्दविहारी जिनवचनदूषको मृगचारित्रः परिलप्यते स्वच्छन्द इति वा, एते पंच
१ तथा च. ख. २ तासां पंचतयैव सा इति पुस्तके पाठः । मूलपुस्तकं ज्ञानार्णवं दृष्ट्वा प्रवर्तितः।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org