________________
भावप्राभृतं । परिणामम्मि असुद्धे गंथे मुच्चे बाहरे य जई। बाहिरगंथचाओ भावविहूणस्स किं कुणइ ॥ ५॥
परिणामे अशुद्ध ग्रन्थान् मुञ्चति बाह्यान् च यदि ।
बाह्यग्रन्थत्यागो भावविहीनस्य किं करोति ॥ परिणामम्मि असुद्धे परिणामे मनोव्यापारेऽशुद्धेऽपि विषयकषायादिभिर्मलिने सति । गंथे मुच्चेइ बाहिरे ये जई ग्रन्थान् मुञ्चति परिग्रहान् वस्त्रादीन् त्यजति यतिर्जिनलिंगधारी मुनिः । बाहिरगंथच्चाओ बाह्यग्रन्थत्यागो वस्त्रादित्यजनं । भावविहूणस्स किं कुणइ भावविहीनस्यात्मभावनारहितस्य बहिरात्मनो जीवस्य किं करोति, न किमपि कर्म संवरनिर्जरालक्षणं कार्य करोतीति भावार्थः ।
जाणहि भावं पढम किं ते लिंगेण भावरहिएण । पंथिय सिवउरिपंथं जिणउवइदं पयत्तेण ॥६॥
जानीहि भावं प्रथमं किं ते लिङ्गेन भावरहितेन । . __ पथिक ! शिवपुरिपथः जिनोपदिष्टः प्रयत्नेन ॥ जाणहि भावं पढमं जानीहि भावमात्मस्वरूपभावनां प्रथम मुख्यं । किं ते लिंगेण भावरहिएण किं तव लिंगेन भावरहितेन किं, न किमपि संवरनिर्जरादिलक्षणं कार्य, अपि तु न किमपि कार्य भवति लिंगेन वस्त्रादित्यजनलक्षणेनात्मस्वरूपभावनारहितेन । पंथिय हे पथिक ! मोक्षमार्गमार्गक! सिवउरिपंथं मोक्षनगरीमार्गः। जिणउवइदं जिनोपदिष्टः । प्रयत्नेन यतः कारणादिति शेषः ।
भावरहिएण सउरिस अणाइकालं अणंतसंसारे।
गहिउज्झियाई बहुसो बाहिरनिग्गंथरूवाई ॥७॥ १ विहीणस्स. इति मूलगाथापाठः। किन्तु टीकायां क. ख. ग. घ. पुस्तके विहणस्स इति पाठः। तदनुसारेण प्रवर्तितः । २ करइ इति मूलगाथापाठः। ३ इ. टी. ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org