SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १३० षट्प्राभूते ज्ञानादीन् गुणानुत्पादयति मुक्तिं गच्छति । एतदर्थं जिणा विंति केवलिनो जानन्ति । भावविशुद्धिनिमित्तं बाहिरगंथस्स कीरए चाओ । बाहिरचाओ विहलो अब्भन्तरं गंथजुत्तस्स ॥ ३ ॥ भावविशुद्धिनिमित्तं बाह्यग्रन्थस्य क्रियते त्यागः । बाह्यत्यागो विफलः अभ्यन्तरग्रन्थयुक्तस्य ॥ भावविसुद्धिनिमित्तं भावस्यात्मनो विशुद्धिनिमित्तं कारणं । बाहिरगंथस्स कीरए चाओ बाह्यग्रन्थस्य क्रियते त्यागः वस्त्रादेर्मोचनं विधीयते । बाहिरचाओ विहलो बाह्यत्यागो विफलोऽन्तर्गडुर्भवति । अभंतरगंथजुत्तस्स अभ्यन्तरपरिग्रहयुक्तस्य नग्नस्यापि वस्वादेराकांक्षायुक्तस्येति भावः । तथा चोक्तं I ▬▬▬▬▬▬▬▬▬▬▬ बाह्यग्रन्थविहीना दरिद्रमनुजाः स्वपापतः सन्ति । यः पुनरन्तःसंगत्यागी लोके स दुर्लभः साधुः ॥ १ ॥ भावरहिओ न सिज्झइ जइ वि तवं चरइ कोडिकोडीओ । जम्मंतराई बहुसो लंबियहत्थो गलियवत्थो ॥४॥ भावरहितो न सिद्ध्यति यद्यपि तपश्चरति कोटकोटी । जन्मान्तराणि बहुशः लम्बितहस्तो गलितवस्त्रः ॥ भावरहिओ न सिज्झइ भवरहित आत्मस्वरूपभावनारहितो विषयकषायभावनासहितस्तपस्वी अपि न सिद्ध्यति न सिद्धि प्राप्नोति । जइ वि' तवं चरs कोडिकोडीओ यद्यपि तपश्चरति करोति कोटीकोटी | जम्मंतराई जन्मान्तराणि । बहुशो ऽनेक कोटीकोटी जन्मान्तराणि । कथंभूतः सन्, लंबियहत्थो अधोमुक्तबाहुद्वयः । गलियवत्थो नग्नमुद्राधरोऽपि सन् । १ विफलो. ग. । २ संग. ग. ध. । ३ व. टी. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy