________________
AA
भावप्राभृतं । भावश्च प्रथमलिङ्गं न द्रव्यलिङ्गं च जानीहि परमार्थम् ।।
भावः कारणभूतः गुणदोषाणां जिना विदन्ति ॥ भावो य पढमलिंगं भावश्च प्रथमलिंगं प्रथमं दीक्षाचिन्हें भावो भवति । चकाराद्र्व्यलिंगं धृत्वा भावलिंगं प्रकटं क्रियते यथाऽपत्योत्पादनेन पुरुषशक्तिः प्रकटीभवति तथा द्रव्यलिंगिनो मुने वलिंगं प्रकटं भवति पुरुषशक्तेर्भावस्य च लोचनानामगोचरत्वात् । उक्तं चेन्द्रनन्दिना भट्टारकेण समयभूषणप्रवचने
द्रव्यलिंगं समास्थाय भावलिंगी भवेद्यतिः । विना तेन न वन्द्यः स्यान्नानावतधरोऽपि सन् ॥१॥ द्रव्यलिंगमिदं शेयं भावलिंगस्य कारणं । तदध्यात्मकृतं स्पष्टं न नेत्रविषयं यतः ॥२॥ मुद्रा सर्वत्र मान्या स्यान्निर्मुद्रो नैव मान्यते।
राजमुद्राधरोऽत्यन्तहीनवच्छास्त्रनिर्णयः ॥३॥ ण दव्वलिंगं च जाण परमत्थं द्रव्यलिंगे सति भावं विना परमार्थसिद्धिर्न भवति तेन कारणेन द्रव्यलिंगं परमार्थसिद्धिकरं न भवति मोक्षं न प्रापयति, तेन कारणेन द्रव्यलिंगपूर्वकं भावलिंग धर्तव्यमिति भावार्थः । ये तु गृहस्थवेषधारिणोऽपि वयं भावलिंगिनो वर्तामहे दीक्षायामन्तर्भावत्वात्ते मिथ्यादृष्टयो ज्ञातव्या विशिष्टजिनलिंगविद्वेषित्वात् , योद्धमिच्छवः कातरवत्स्वयं नश्यन्ति, अपरानपि नाशयन्ति, ते मुख्यव्यवहारधर्मलोपकत्वाद्विशिष्टैर्दण्डनीयाः । भावो कारणभूदो भावः परममुक्तिकारणभूतः । गुणदोसाणं गुणानां केवलज्ञानादीनां, दोषाणां नरकपातादीनां च कारणभूतो भाव एव । यदि द्रव्यलिंगं धृत्वा रागद्वेषमोहादिषु पतति मुनिस्तदा स तस्य भावः संसार कारणं भवति । यदि द्रव्यलिंग धृत्वा नीरागनिद्वैषनिर्मोहभावनां भावयति तदा केवल
षटू. ९
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org