SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतम्। अथेदानी भावप्राभतं कुर्वन्तः श्रीकुन्दकुन्दाचार्या इष्टदेवता नमस्कुर्वन्ति-- णमिऊण जिणव दे णरसुरभवणिंदवंदिए सिद्धे । वोच्छामि भावपाहुडमवसेसे संजदे सिरसा ॥१॥ नमस्कृत्वा जिनवरेन्द्रान् नग्सुरभवनेन्द्रवन्दितान् सिद्धान् । वक्ष्यामि भावप्राभृतं-अवशेषान् संयतान् शिरसा ॥ णमिऊण जिणवरिंदे नमस्कृत्य, कान् ? जिनवरन्द्रान् सप्तप्रकृतिक्षयेण कृत्वैकदेशेन जिनाः सदृष्टयः श्रावकादय एकादशगुणस्थानवर्तिनः क्षीणकषायाश्च सयोगकवलिपर्यन्ता जिना उच्यन्ते गणधरदेवाश्च तेषां मध्ये वरा: श्रेष्ठा अपरकेत्रलिनश्च तेषामिन्द्राः स्वामिनस्तीर्थकरपरमदेवा जिनवरेन्द्राः कथ्यन्ते तान् नत्वा । कथंभूतान् जिनवरेन्द्रान्, णरसुरभवणिंदवंदिए नरेन्द्रमुरेन्द्रभावनेन्द्रवदितान् । सिद्धे तादृग्विशेषणविशिष्टान् सिद्धांश्च नत्वा । वोच्छामि भावपाहुडं वक्ष्यामि कथयिष्यामि, किं तद्भावप्राभतं भावसारग्रन्थं । न केवलमहे सिद्धान् वन्दित्वाऽपि तु अवसेसे संजदे अवशेषान् संयतान् आचार्योपाध्यायसर्वसाधून त्रिविधान् मुनीन् नत्वा । कन, सिरसा उत्तमांगेन जानुकूपरशिरःपंचकेन प्राणप येत्यर्थः । भावो य पढमलिंगंण दव्वलिंगं च जाण परमत्थं । भावो कारणभूतो गुणदोसाणं जिणों विति ॥२॥ १ अस्-त्पूर्वं 'ॐ नमः सिद्धेभ्यः" इति पाठः टीका पुस्तके २ गुणा. घ. गुणिनः । ३ विति-कथयन्ति. घ. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy