SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ बोधप्राभृतं । १२७ वीरेणार्थरूपं शास्त्रं कथितं । सो तह कहियं णायं तत्तथा कथितं ज्ञातमवगतं । सीसेण य भद्दबाहुस्स केन ज्ञातं ? शिष्येणान्तेवासिना भद्रबाहुशिष्येण अर्हद्वलिगुप्तिगुप्तापरनामद्वयेन विशाखाचार्यनाम्ना दशपूर्वधारिणामेकादशानामाचार्याणां मध्ये प्रथमेन ज्ञातं । बारसअंगवियाणं चउदसपुव्यंगविउलवित्थरणं । सुयणाणिभद्दबाहू गमयगुरूभयवओ जयओ ॥६२।। द्वादशाङ्गविज्ञान: चतुर्दशपूर्वाङ्गविपुलविस्तरणः । श्रुतज्ञानिभद्रबाहुः गमकगुरुः भगवान् जयतु ॥ बारसअंगवियाणं द्वादशाङ्गविज्ञानयुक्तः । चउदसपुव्वंगविउलवित्थरणं चतुर्दशानां पूर्वाङ्गानां पूर्वाणां विपुलं पृथु विस्तरणं यस्य स चतुर्दशपूर्वाङ्गविपुलविस्तरणः । सुयणाणिभद्दबाहू पचानां श्रुतकेवलिनां मध्येऽन्त्यो भद्रबाहुः। गमयगुरुभयवओ जयओ यादृशः सूत्रेऽ र्थस्तादृशो वाक्यार्थस्तं जानन्तीति गमकास्तेषां गुरुरुपाध्यायो भगवान् इन्द्रादीनामाराध्यो जयतु सर्वोत्कर्षेण वर्ततां तस्मायस्माकं नमस्कार इत्यर्थः । इति श्रीपद्मनन्दिकुन्दकुन्दाचार्यवक्रग्रीवाचार्यलाचार्यगृद्धपिच्छाचार्यनामपंचकविराजितेन श्रीसीमन्धरस्वामिज्ञानसंबोधितभव्यजनेन श्रीजिनचन्द्रसूरिभट्टारकपट्टाभरणभूतेन कलिकालसर्वज्ञेन विरचिते षदप्राभृतग्रन्थे सर्वमुनिमण्डलिमण्डितेन कलिकालगोतमस्वामिना श्रीमल्लिभूषणेन भट्टारकेणानुमतेन सकलविद्वज्जनसमाजसम्मानितेनोभयभाषाकविचक्रवर्तिना श्रीविद्यानन्दिगुर्वन्तेवासिना सूरिवरश्रीश्रुतसागरेण विरचिता बोधप्राभृतस्य टीका परिसमाप्ता। १ अस्मादने “ चतुर्थः परिच्छेदः" इति पाठः टीकापुस्तके वर्तते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy