SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२६ षट्प्राभतेप्राप्तोत्कर्ष तदस्य स्यात्तपश्चिन्तामणेः फलं । यतोऽर्हजातिमूर्त्यादिप्राप्तिः सैषानुवर्णिता ॥ ३३ ॥ जैनेश्वरी परामाज्ञां सूत्रोद्दिष्टां प्रमाणयन् । तपस्यां यदुपादत्ते पारिवाज्यं तदाञ्जसं ॥ ३४ ॥ अन्यच्च बहुवाग्जाले निबद्धं युक्तिबाधितं । पारिवाज्यं परित्याज्यं ग्राह्यं चेदमनुत्तरं ॥३५॥ पंचत्रिंशच्छ्लोकैः प्रव्रज्या वर्णिता। इति श्रीबोधप्राभृते प्रव्रज्याधिकार एकादशः समाप्तः।११। अथेदानी बोधप्राभूतस्य चूलिकां गाथात्रयेण निरूपयन्तिरूवत्थं सुद्धत्थं णिमग्गे जिणवरेहिं जह भणियं । भव्वजणबोहणत्थं छक्कायहियंकरं उत्तं ।। ६० ॥ रूपस्थं शुद्धयर्थे जिनमार्गे जिनवरैर्यथा भणितम् । भव्यजनबोधनार्थ षट्कायहितंकर-उक्तम् ॥ रूवत्थं सुद्धत्थं रूपस्थं निग्रन्थरूपस्थितमाचरणं मयोक्तमितिसंम्बन्धः । किमर्थ भणितं, सुद्धत्थं-शुद्धयर्थ कर्मक्षयनिमित्तं । जिणमग्गे जिणवरेहिं जह भणियं जिनमार्गे जिनशासने जिनवरैतीर्थकरपरमदेवैगौतमान्तगणधरदेवैश्च यथा येन प्रकारेण भणितं । भव्वजणबोहणत्थं आसन्नभव्यजीवसम्बोधनार्थ । छक्कायहियंकरं उत्तं षट्कायहितकर सर्वजीवदयाप्रतिपालनार्थ उक्तं निरूपितम् । सदवियारो हूओ भासासुत्तेसु जं जिणे कहियं । सो तह कहियं णायं सीसेण य भद्दबाहुस्स ॥६१॥ शब्दविकारो भूतः भाषासूत्रेषु यत् जिनेन कथितम् । तत् तथा कथितं ज्ञातं शिष्येण च भद्रबाहोः ॥ सद्दवियारो हूओ शब्दविकारो भूतोऽर्हद्ध्वनिनिर्गतः। भासासुत्तेसुजं जिणे कहियं सर्वार्धमागधीभाषासूत्रेषु यजिनेन कथितं श्री Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy